SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्णिभाष्यावरिः उ० १४.२ प्रतिग्रहस्य प्रामित्यादिना ग्रहणनिषेधः अवचूरिः-यत् क्रीत स्वयमेव मूल्यं समर्प्य यस्य क्रयणं कृतं तत्, यद्वा क्रापितम् अन्य द्वारा क्रयणं कारितम् 'अन्येन क्रीत्वा अभिमुखमानीय समर्पितं तत् तादृशम् अनुमोदितं वा, एतत् त्रिविषमपि पात्रमेकैकं द्विविधं द्विप्रकारकं कथितं द्रव्यभावभेदात् , तत्र द्रव्यतो गन्धगुटिकाबस्मादिदानेन, भावतः धर्मकथादिकथनेन जातिकुलगणादिदर्शनेन, शिल्पादिशिक्षणेन भवति । तथा पुनरपि क्रीतादिकं द्विविधं भवति आत्मपरभेदात् , तदपि पुनर्द्विविधं द्रव्यभावभेदात् , तत्र यत् परक्रीतं गृहस्थेन स्वयं क्रीतं तत् त्रिविधं भवति सचित्तक्रीतम् , अचित्तक्रीतं, मिश्रक्रीतम् , तत्र सचित्तकोतं-सचित्तेन द्विपदचतुष्पदादिना क्रीणाति, अचित्तक्रीतम्-अचित्तेन हिरण्यादिना क्रीणाति, मिश्रक्रीतं मिश्रितेन वस्त्राभूषणसहितदासोदासादिना क्रीणाति तत् मिश्रक्रीतम् । द्रव्यत आत्मक्रीतं चेत्थम् - यो भिक्षुः पात्रार्थ स्वस्य वस्त्रं दत्त्वा पात्रं गृह्णाति, भावत आत्मक्रीतं धर्मकथादिना यत् गृह्यते । परक्रीतं तु इत्थस्-गृहस्थः स्वयमेव क्रीणाति तत् परक्रीतम् । एतेषां स्वक्रीत-परक्रीत-द्रव्यकीत-भावक्रीताभिमुखानीतपात्रादिकमध्यात् अन्यतरमपि पात्रादि उपभोगाय गृह्णाति तथा गृहीत्वा उपभोगं कुर्वाणं समनुमोदते म प्रायश्चित्तभागी भवति ॥ सू० १॥ सूत्र-जे भिक्खू पडिग्गहं पामिच्चेइ पामिच्यावेइ पामिच्चियमाहटु दिञ्जमाण पडिग्गाहेइ पडिग्याहतं वा साइज्जइ ॥ सू० २॥ छाया-यो भिक्षुः प्रतिग्रहं प्रामित्यति प्रामित्ययति पामित्यम् आहृत्य दीयमान प्रतिगृहालि प्रतिगृहन्तं वा स्वदते ॥सू० २॥ चूर्णी-'मे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिमाई' प्रतिग्रह पात्रम् 'पामिच्देई' प्रामित्यति मितिः प्रमाणं, तस्माद् आगतं प्रामित्यम् , प्रमाण कृत्वा प्रति प्रदान प्रक्षिशया यद् ग्रहणं सत् प्रामिव्यम् । तत्करोतोति प्रामित्यति, यथा यस्य बस्तुनः ग्रहणकाले कथयसि 'यदिदाबीमिदं वस्तु त्वं मम देहि कालान्तरे एतस्य मूल्यं तदेव वस्तु वा प्रतिदास्यामि' इति कृत्वा ऋणरूपेणानीयते तत् प्रामित्यम् 'उधार' इति लोकप्रसिद्धम् , तत्करोतीति, ज्या 'पामिच्चाई' प्रामित्ययति , अन्यद्वारा ऋणरूपेण आनाययति 'पामिच्चियमाटु दिज्जमाणं' आमित्यिप्तम्-प्रामित्येन गृहीतम् आहृत्य दीयमानम् उद्धारं कृत्वा पात्रं क्रीतवान् , बादशपात्रमभिमुखमानीय दीयमानम् यो भिक्षुः श्रमणः श्रमणी वा 'पडिग्गाहेई' प्रतिगृह्णाति स्वीकरोति प्रातिप्रास्यति स्वीकास्यति वा तथा पडिमगाहेंत' वा साइज्जई' प्रतिगृह्णन्तं वा स्वदले मोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकारः-- भाष्यम्पामिच्चाइयपायं तु. दुषिहं परिकिट्टियं । लोडवरं लोइयं च, तम्महणे दोसभा जई ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy