SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ चतुर्दशोदेशकः॥ अथ त्रयोदशोदेशकं व्याख्यायावसरप्राप्तं. चतुर्दशोद्देशं. व्याख्यातुमाइ, तत्र त्रयोदशोदेशकान्तिमसूत्रेण सह चतुर्दशोदेशकादिसूत्रस्य का सम्बन्धः । इत्यत्राह भाष्यकारःभाष्यम्-पडिसेहो च पुन्वंमि, पिंडाइम्स पदंखियो । सो चेव पडिसेहो उ, पत्ताइस्सा कहिज्जन छाया-प्रतिषेधश्च पूर्वस्मिन् पिण्डाले प्रदर्शितः । स एव प्रतिषेधस्तु पात्रादेः कन्यते ॥ अवचरिः- त्रयोदशोदेशकस्य अन्तिमे पिण्डादेरविहितधात्र्यादिपिण्डस्य प्रतिषेधः धात्रीपिण्डप्रभृतिपिण्डग्रहणस्य निषेधः प्रदर्शितः कथितः, तादृशपिण्डस्य संयमोपघातकत्वात् , स एव प्रतिषेधोऽत्र चतुर्दशोदेशके पात्राथुपधेः कथ्यते, तत्राविहितपिण्डग्रहणस्य तदुपभोगस्य च निमेषः कृतोऽत्राविहितपात्रस्योपलक्षणादुपधेः निषेधो वर्ण्यते इति उभयत्रापि प्रतिषेध एव, ततश्च यथा अविशुद्धपिण्डग्रहणं न कर्तन्यं तथैव-अविशुद्धपात्रादिकमपि वर्जनीयमेव, तदनेम सम्बन्धेनायातस्यास्य चतुर्दशोद्देशकीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते- 'जे भिक्खू' इत्यादि । सूत्रम्-जे भिक्खू पडिग्गहं किणइ किणावेइ कीयमाहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० १॥ छाया-यो भिक्षुः प्रतिग्रहं क्रीणानि क्रापयति क्रीतमाहत्य दीयमानं प्रतिगृति प्रतिगृहन्तं वा स्वदते ॥ सू० १॥ चूर्णी-जे भिक्खू' इत्यादि । 'जेभिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पडिग्गह' प्रतिग्रहं पत्रं 'किणइ' क्रीणाति, द्रव्यादिकं दत्त्वा स्वयमेव पात्रस्य क्रयणं करोति तथा 'किणावेइ' क्रापयति, परद्वारा द्रव्यादिकं दापयित्वा पात्रं क्रीणाति तथा 'कीयमाहहु दिज्जमाणं पडिग्गाहेई' क्रीतमाहृत्यदीयमानं गृह्णाति, अन्यः कोपि श्रद्धालुर्गृहस्थः मूल्यं दत्त्वा पात्रं क्रीतवान्, क्रीत्वा प्रदीयते तादृशं क्रीतमाहृतमभिमुखमानीय टीयमानं पात्रादिकं प्रतिगृहाति स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वतते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनादयो दोषा भवन्तीति ।। सू० १॥ अत्राह भाष्यकार: ..... भाष्यम् -- कीयं किणावियं वावि, अणुमोइयमेव वा । एक्केक्कं दुविहं वुत्तं, दध्वभावप्पमेयो || छाया-क्रीत क्रापितं वापि, अनुमोदितमेव वा । पकैकं द्विविध प्रोक्तं द्रव्यभावग्रमेदतः ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy