SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२६ www.kobatirth.org निशोथसूत्रे " चारित्रविराधकदोषेषु संसक्तः आसक्तः चारित्रविराधकदोषयुक्त इत्यर्थः, यथा गंवादिमृतशरीरं कथितं सदनेकप्रकारककृमिजालाकीर्णं भवति तथैव संसक्तोऽप्यनेकदोषाकीर्णो भवति, स बहुरूपिपुरुषवत् अनेकरूपधारी भवति, नटवत् अनेकरूपाणि करोति, वस्त्रवत् यथा हरिद्वारागरक्तं प्रक्षाल्य गेरुकादि - रागरक्तं करोति, एवं संसक्तोऽपि नानाप्रकारको भवति, यथा पार्श्वस्थेषु तिष्ठन् पार्श्वस्थो भवति, कुशीलेषु तिष्ठन् कुशलो भवति, एवमवसन्नादिविषयेऽपि विज्ञेयम् । एवमन्येष्वपि यथाविधेषु तिष्ठन् यथाविध एव जायते । एतादृशं संसक्तं वन्दते ।। सू० ५६ || प्रशंसति । सू० ५७|| 'अहाच्छंद' यथाच्छन्दम्, यथाच्छन्दः यथा यत्प्रकारकः छन्दः अभिप्राय उत्पद्यते तदनुसारं वर्त्तते यः स यथाच्छन्दः यथेच्छ कार्यकारी आगमनिरपेक्षचारीत्यर्थः तं वन्दते ॥ सू० ५८ ॥ प्रशंसति ॥ सू० ५९॥ 'नितियं' नैत्यिकम् नैत्यिक:- नित्यपिण्डभोजी यः प्रतिदिनमेकस्मादेव गृहात् नियमत आहारादिकं गृह्णाति सः तादृशं वन्दते ॥ सू० ६०|| प्रशंसति ॥ सू० ६१ ॥ 'काहिये' काथिकम् काथिकः कथाकारकः, योऽशनाद्यर्थे यशः कीर्तिप्राप्त्यर्थं च धर्मादिकथां कथयति यः सः तं वन्दते ॥ सू० ६२ || प्रशंसति ॥ सू० ६३॥ 'पासणियं' प्राश्निकम्, प्राश्निकः यः सावधप्रश्नं करोति, सावधमपि प्रश्नस्योत्तरं ददाति भूतभविष्यत्कालिकं शुभाशुभं प्रश्नस्योत्तरं ददाति सः तं वन्दते ॥ सू० ६४ || प्रशंसति ॥ सू० ६५ || 'मामगं' मामकम्, मामकः-यः उपधिवस्त्रपात्रवसत्यादौ मम ममेति ममकारकरणात् मामकः प्रोच्यते, एते उपध्यादयो . मम सन्ति न कोऽप्यन्यः एषामुपभोगं करोतु, इत्येवं कथनशीलो मामकः, यथा - मदीयो देशः सुन्दरः, वृक्षवापीस रस्तडागादिशोभितः नैतादृशोऽपरो देशः, सुविहारो मम देशः, यत्र सुलभवअतिकोप करणादयो बहवो गुगाः सन्ति, यत्र शालिगोधूमादीनि अनेकप्रकारकाणि वस्तूनि निष्पद्यन्ते यत्र गोमहिष्यादीनां प्रभूतत्वेन दुग्धदधिनवनीतघृतादीनि प्रचुराणि भवन्ति, यत्र वस्त्रालङ्कारादिभिरुपशोभितः स्त्रीपुरुषादिर्वर्त्तते, तत्र साधुसाध्वीनामुपद्रवकारको जनो न कोऽपि वर्तते, एतादृशो देशो मम, इत्यादिरूपेण सर्वत्र ममकारको मामकः प्रोच्यते तं वन्दते ॥ सू० ६६ ॥ प्रशंसति ॥ सू० ६७|| 'संपसारियं' साम्प्रसारिकम्, साम्प्रसारिक : - गृहस्थानां कार्येषु गुरुलाघवं संप्रसारयितुं विस्तारयितुं विस्तरेण तद्विस्तरेण तद्विषये संमतिं दातुं शीलं यस्य स संप्रसारी, स एव साम्प्रसारिकः गृहस्थानां व्यापारादिषु कौटुम्बिकोचितानुचितकार्येषु मार्गप्रदर्शक, तं यो वन्दते ॥ सु०६८॥ प्रशंसति प्रशंसन्तं वाऽन्यं स्वदते अनुमोदते सः आज्ञाभङ्गादिदोषान् प्राप्नोतीति । • अत्राह भाष्यकारः -- भाष्यम् -- पासत्थं च समारम्भ, संपसारियमंतगं । वंदइ पसंसई चेव, आणाभंगाइ पावई || Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy