________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
निशीथसूत्रे वा-गृहस्थं श्रावकमश्रावकं वा 'सिप्पं वा' शिल्पं वा-शिल्पकला वस्त्रादिसंपादनकलामित्यर्थः 'सिलोगं वा' श्लोकं वा-संस्कृतप्राकृतपद्यात्मकं वा काव्यनाटकादिकम् 'अट्ठावयं वा' अष्टापदं वा-अष्टापदमिति धूतफलकं पट्टिकारूपम् , यस्योपरि चूतं क्रीडयते, उपचारात्तद्विषयककलां वा, अथवा अष्टापदमिति 'पासा' इति प्रसिद्धम् , तद्विषयां कलाम् , यथा-वयं नो जानीमः, इदं पासकं सुभिक्षदर्भिक्षादिकं कथयतीत्येवंरूपां कलां वा, 'कक्कडगं वा' कर्कटकं वा कर्कटकमिति कचवरं सर्ववस्तुसंमिश्रणं, कर्कटमिव कर्कटकं सर्वभावैक्यं, सर्ववस्तुभावैक्यमित्यर्थः, एवं कथने उभयथाऽपि दोषापत्तिरापतेदिति । अथवा-कर्कटकं निमित्तशास्त्रसामुदिकशास्त्रज्योतिर्विद्यादिसंमिश्रणरूपं वा, 'बुग्गई वा व्युद्ग्रहम्-राजादियुद्धजनितजयपराजयज्ञानरूपां कलाम् 'सलाहं वा' ग्लाघां वा-अन्यगुणवर्णनरूपां काव्यकलां वा, 'सलाहकहत्थयं वा श्लाघकथास्तवं वा-लाघात्मिका कथां स्तवं वा, अथवा अपूर्वाभिनवानेककाव्यवर्णनकलां वा यः श्रमणः श्रमणी वा तापसादिकं श्रावकमश्रावकं वा 'सिक्खावेइ' शिक्षयति-तद्विषयां शिक्षा ददाति तथा-'सिक्खावेंतं वा साइज्जई' शिक्षयन्तं शिल्पकलादीनां शिक्षणं ददतं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
भत्राह भाष्यकारःभाष्यम्-सिप्पसिलोगाइकलं, सिक्खावइ अन्नउत्थियं गिहिणं ।
सो पावइ पच्छित्त, आणाभंगाइरुवं च ॥ छाया-शिल्पश्लोकादिकलां शिक्षयति अन्यतीर्थिकं गृहिणम् ।
__ स प्राप्नोति प्रायश्चित्तं आशाभङ्गादिरूपं च ॥
अवचूरि:-प्रकृतसूत्रे शिल्पश्लोकादिकलाम् , आदिपदेन शेषाः एतद्भिन्नाः या अन्याः कलाः अष्टापदादिरूपाः, ताः सर्वा अपि सूचिताः भवन्ति, एताः कलाः शिल्पादिकाः कदाचिदपि श्रमणः तापसादिकं गृहस्थादिकं वा न शिक्षयेत् , यस्तु श्रमणः मोहात्कारणान्तराद् वा अन्यतीर्थिकानां तापसादीनां गृहस्थानां श्रावकाणामन्येषां वा पूर्वोक्तकलां शिक्षयति एतत्कलाशिक्षको भवति स श्रमणः श्रमणी वा आज्ञाभङ्गादिदोषरूपं प्रायश्चित्तं प्राप्नोति स प्रायश्चित्तभागी भवतीत्यर्थः ॥ सू० १२॥
सूत्रम्-जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगाढं वयइ वयंतं वा साइज्जइ ॥ सू० १३॥ जे भिक्खू अण्णउत्थियं वा गारत्थियं वा फरुसं वयइ वयंतं वा साइज्जइ ॥ सू० १४॥ जे भिक्खू अण्णउत्थियं वा गारत्थियं वा आगादफरुसं वयइ वयंतं वा साइज्जइ ॥ सू० १५॥
For Private and Personal Use Only