________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
निशीथसूत्रे छाया- यदि भवेच्च स्थलमार्गः, जलेन गच्छेत् नैव पादाभ्याम् ।
नैव दूरोहेत् नावं, तत्राऽपायानां संभवतः अवचूरिः-यदि ग्लानस्य साधोयावृत्यादिके गाढतरे कारणे समुपस्थिते सति गमनमावश्यकं भवेत् तदा यदि तत्र गमनार्थ स्थलमार्गो दूरतरोऽपि भवेत् तर्हि जलेन नद्यादिजलमार्गेण पादाभ्यां नैव गच्छेत् . नैव च नावं दूशेहेत् नौकोपरि नोपविशेत् , किमर्थमित्याह तत्र णदाभ्यां नौकया वा गमने-अपायानां विघ्नानां बहूनां संभवात् । अपाया द्विविधाः- संयमापायाः आत्मापायाश्च । तत्र नदीजले पादाभ्यां गमने अकायस्य पादप्रहारेण तत्रस्थितत्रसकायानां मण्डूकमत्स्यादीनां च विराधनारूपा अनेके संयमापाया भवन्ति । जले गर्तादौ पादपतनात् तत्समये जलपूरस्यागमनादिना चानेके आत्मापाया अपि भवन्ति, एवं नौकया गम नेऽपि विज्ञेयम् , तथाहि-नौकायाः संचरणेन जलविलोडनं भवति तेनाप्कायस्य तदधोगतानां त्रसाणां मण्डूकमत्स्यलघुजलचरादिजीवानां च विराधना भवति तेन संयमापायसंभवः, तथा नौकाया ब्रुडनभजनादिना-आत्मापायसंभवः, ततः संयमात्मविराधनादोषसद्भावात् दूरतरस्थलमार्गसंभवे साधुर्जलमार्गेण नो गच्छेदिति भावः ॥ सू० ४३॥
सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्याइयं ॥ सू०४४॥
॥निसीहज्झयणे बारसमो उद्देसो समत्तो ॥१२॥ छाया-तं सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥४॥
॥ निशीथाध्ययने द्वादश उद्देशः समाप्तः ॥१२॥ चूर्णी-'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः, तत् उद्देशकादौ कथितत्रसपाणातिबन्धनादारभ्योदेशकान्ते वर्णितनदोसंतरणपर्यन्तमायश्चित्तम्थानमध्यात् एकमनेक सर्व वा प्रायश्चित्तस्थानं 'सेवमाणे' सेवमानः समाचरन् श्रमणः श्रमणी वा 'आवज्जई' आप द्यते प्राप्नोति 'चाउम्मासिय' चातुर्मापिकम् 'परिहारट्ठाणं' परिहारस्थानम् प्रायश्चित्तस्थानम् 'अणुग्घाइयं' अनुद्घातिकम् -लघुमासिकमित्यर्थः । सू० ४४|| इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक--पञ्चदशभाषाकलितललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि--जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् द्वादशोद्देशकः समाप्तः ॥१२॥
For Private and Personal Use Only