________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्णिमाम्यावरिः उ० १२ सू० ४३-४४ मासिकद्वित्रिधारगङ्गादिमहानधुत्तरणनिषेधः ३०३ कृत्वा, उपलक्षणादन्यस्मै वा कस्मैचिद् गृहस्थाय बालकादिभ्यो वा 'असण वा ४' अशनं वा ४, चतुर्विधमाहारजातम् 'देई' ददाति अन्यस्मादापयति वा 'देतं वा साइज्जई' ददतं वा स्वदते । यो हि अन्ययूथिकादिभ्यः कार्यमुपधिवाहनादिकं कारयित्वा तेभ्यः तन्मूल्यरूपेणानुग्रहेण वा आहारादिकं ददाति दापयति ददतमनुमोदते वा स प्रायश्चित्तभागी भवति, भिक्षिताशनादेरन्यस्मै दाने साधोरनधिकारिस्वात् , भगवतानिषिद्धत्वाच्च ।। सू० ४२॥
सूत्रम्--जे भिक्खू इमाओ पंच महण्णवाओ महानईओ उदिवाओ गणियाओ वंजियाआ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरइ वा संतरइ वा उत्तरंतं वा संतरंतं वा साइज्जइ । तं जहा-गंगा, जउणा, सरऊ, एराबई, मही-त्ति । सू० ४३॥
छाया-यो भिक्षुरिमाः पञ्च महार्णवा महानद्य उद्दिष्टा गणिता व्यजिता अन्ताः सस्य द्विकृत्वो वा विकृत्वो वा उत्तरति संतरति उत्तरन्तं वा सन्तरन्तं वा स्वदते तद्यथा-गङ्गा, यमुना, सरयू, ऐरावती, मही, इति ॥ सू० ४३॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'इमाओ' इमा-वक्ष्यमाणाः 'पंच' पञ्च-पञ्चसंख्याविशिघ्राः 'महण्णवाओ' महार्णवाः समुद्रतुल्याः, आसां पञ्चनदीनां महार्णवतुल्यता च बहूदकत्वेन तथा आयामविस्ताराभ्यां वा यथा समुद्रो बहूदको दीर्घा विस्तृतश्च तथैव एता अपि बहूदकाः दीर्घा विस्तृताश्च सन्ति अत एव 'महागईओ' महानद्यः यत एव बहूदकादिविशिष्टा अत एव महानदीपदवाच्याः 'उढिाओ' उद्दिष्टाः कथिताः 'गणियाओ' • गणिताः अन्यनदीषु महत्त्वेन गणनां प्राप्ताः 'वंजियाओ' व्यञ्जिताः प्रकटीकृता शास्त्रे प्रतिपादिता वा, एता महानदीः 'अंतो मासस्स' अन्तर्मासस्य एकस्य मासस्यान्तः-मध्ये 'दुक्खुत्तो वा तिक्खुत्तो वा' द्विःकृत्वो वा त्रिःकृत्वो वा द्विवारं वा त्रिवारं वा 'उत्तरइ वा संतरइ वा' उत्तरति वा संतरति वा, तत्र निरन्तरं तरणम् उत्तरणं चरणाभ्यां पारकरणम् , संतरणं नावादिना पारकरणम् । गाढतरकारणाभावे नदीनामुत्तरणे संतरणे चाप्कायिकस्य विराधने संयमविराधनम् , तथा गर्तादौ चरणपतनात् पारकरणसमये जलपूरागमनाच्च आत्मविराधनम् । अनेन प्रकारेण मासाभ्यन्तरे यः श्रमणः श्रमणी वा द्विवारं वा त्रिवारं वा उत्तरति सन्तरति वा तथा 'उत्तरंतं वा संतरंतं वा साइज्जइ' उत्तरन्तं वा सन्तरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्-जइ होज्ज य यलमग्गो, जलेण गच्छेज्ज नेव पारहि ।
नेव दुरोहे णावं, तत्थावायाण संभवओ ॥
For Private and Personal Use Only