________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे पश्चिमां पौरुषी दिवसस्य चरमपौरुषीमित्यर्थः, ‘उवाइणावेइ' अतिकामति उल्लयति चरमपौरुषीपर्यन्त स्थापयतीत्यर्थः 'उवाइणावेतं बा साइज्जई' अतिकामन्तं वा स्वदते स प्रायश्चित्तभागी भवति पर्युषितदोषसंभवात् ।। सू० ३१॥
सूत्रम्--जे भिक्खू परं अद्धजोयणमेराओ परेणं असणं वा ४ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ।। सू० ३२॥
छाया--यो भिक्षुः परमर्द्धयोजनमर्यादातः परेण अशनं वा ४ अतिकामयति अतिकामयन्तं वा स्वदते ॥ सू० ३२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं अद्धजोयणमेराओ' परेमर्द्धयोजनमर्यादातः-क्रोशद्वयमर्यादातोऽये 'परेणं' परेण अन्येन श्रावकादिना श्रावकादिद्वारा समानीतमित्यर्थः 'असणं वा ४ अशनं वा चतुर्विधमाहारजातम् 'उवाइणावेई' अतिकामयति-अशनादेरुल्लंघनं कारयति अर्थात् अत्र गृहीतमाहारं कोशद्वयादधिकमपि दूरं भोक्तुमन्यद्वारा नयति, अथवा क्रोशद्वयादपि अधिकदूरतोऽशनादिकमाहारजातं परद्वारा आनयति आनयनं कारयति तथा 'उवाइणावेतं वा साइज् नई' अतिक्रामयन्तं वा स्वदते अनुमोदते, क्रोशद्वयादधिकदूरमशनादि परेण यः नयति आनयति वा तं तादृशं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०३२॥
सूत्रम्-जे भिक्खू दिया गोमयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज्ज वा विॉलपेज्ज वा आलियत वा विालेपंतं वा साइज्जइ ॥
छाया-यो भिक्षुदिवा गोमयं प्रतिगृह्य दिवा काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सू० ३३॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'गोमयं' गोमयं 'गोबर' इति भाषाप्रसिद्धम् 'पडिग्गाहेत्ता प्रतिगृह्यरात्रौ स्थापयित्वा 'दिया' दिवा-द्वितीयदिवसे 'कासि वर्ण' काये व्रणम् तत्र काये शरीरे जायमान पामादिजन्यं व्रणम् 'आलिंपेज्ज वा' आलिम्पेत् वा एकवारम् 'विलिंपेज्ज वा' विलिम्पेत् वा अनेकवारम् । 'आलिपंतं वा' आलिम्पन्तं वा एकवारं लेपंकुर्वन्तं 'विलितं वा' विलिम्पन्तं वा अनेकवारं लेपं कुर्वन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रार्थाश्चत्तभागी भवति ।। सु० ३३॥
सूत्रम्-जे भिक्खू दिया गामयं पडिग्गाहेत्ता रत्ति कायंसि वणं आलिंपेज्ज वा विलिपेज्ज वा आलिंपतं वा विलिपंत वा साइज्जइ ॥ सू०३४॥
For Private and Personal Use Only