SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० १२ सू० ३०-३३ आहारादिमर्यादाऽतिक्रमणनिषेधः २९९ छाया- यो भिक्षुरैहलोकिकेषु वा रूपेषु पारलोकिकेषु वा रूपेषु दृष्टेषु वा रूपेषु अरष्टेषु वा रूपेबु विशातेषु वा रूपेषु अविज्ञातेषु वा रूपेषु स्वजति रज्यति गृध्यति अध्युपपद्यते स्वजन्तं वा रज्यन्तं वा गृध्यन्तं वा अध्युपपद्यमानं वा स्वदते ॥सू०३०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'इहलोइएसु वा रूवेसु' ऐहलोकिकेषु वा रूपेषु, तत्र ऐहलौकिकाः मनुष्यत्र्यादिपदार्थाः तत्सम्बन्धिषु रूपेषु अनुरागकारणभूतपदार्थेषु 'परलोइएसु वा रूवेसु' पारलोकिकेषु वा, तत्र पारलोकिको देवदेव्यादिहस्तितुरगादिर्वा, तत्संबन्धिषु रूपेषु अनुकूलवेदनीयेषु रूपादिषरार्थजातेषु 'दिहेसु वा रूवेसु' दृष्टेषु वा रूपेषु पूर्व प्रत्यक्षतो दृष्टेषु रूपादिषु वस्तुजातेषु ‘अदिढेसु वा रूवेसु' अदृष्टेषु वा रूपेषु, तत्रादृष्टा देवादयः तत्संबन्धिषु रूपादिषु 'सुएसु वा रूवेसु' श्रुतेषु वा रूपेषु श्रवणेन्द्रियेण साक्षात्कृतेषु श्रवणेन्द्रियजन्यज्ञानविषयतावत्सु अनुकूलवेदनीयपदायें जातेषु 'असु. एसु वा रूवेसु' अश्रुतेषु कर्णपथभनागतेषु वा रूपेषु पदार्थजातेषु 'विन्नाएमु वा रुवेसु' विज्ञातेषु वा रूपेषु वर्तमानकालिकानुभवात्मकज्ञानविषयतावत्सु पदार्थजातेषु 'अविन्नाएम वा स्वेसु' अविज्ञातेषु वा रूपादिषु मानसिकानुभवात्मकज्ञानविषयेषु अनुकूलवेदनीयपदार्थजातेषु उपर्युक्तहलोकिकादिपदार्थजातेषु यः श्रमणः श्रमणी वा 'सज्जइ' स्वजति आसक्तिमान् भवति 'रज्जइ' रज्यति तस्मिन् रूपादिषु अनुरागवान् भवति 'गिजाइ' गृद्धयति रूपादिपदार्थषु गृद्धिमान् भवति तेषु गृद्धिभावं प्राप्नोति, तत्र सर्वदा समुपलभ्यमानेष्वपि अभिरमणं गृद्धिः तां प्राप्नोति 'अझोववज्झइ' अध्युपपद्यते अतिशयेनासक्तिमान् भवति तथा 'सज्जंत' स्वजन्तम्-आसक्ति कुर्वन्तम् 'रज्जत' रज्यन्तम् रूपादिश्वनुरागं कुर्वन्तम् 'गिझंतं' गृद्धचन्तं रूपादिषु गृद्धिभावं कुर्वन्तम् 'अज्झोववज्जतं' अध्युपपद्यमानम् अतिशयेनासक्ति कुर्वन्तम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तेषु सङ्गादिकरणेन चारित्रपतनसंभवादिति ॥ सू० ३०॥ सूत्रम्-जे भिक्खू पढमाए पोरिसीए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता पच्छिमं पोरिसि उवाइणावेइ उवाइणावेंतं वा साइज्जइ ॥ सू० ३१॥ छाया-यो भिक्षुः प्रथमायां पौरुष्यामशन वा पानं वा खाद्यं वा स्वाधं वा प्रति. गृह्य पश्चिमां पौरुषीमतिकामति अतिक्रामन्तं वा स्वदते ।। सू० ३॥ चूर्णी-जे भिक्ख' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पढमाए पोरिसीए' प्रथमायां पौरुष्याम् दिवसस्य प्रथमपौरुष्यामित्यर्थः 'असणं वा ४' अशनं वा १ चतुर्विधाहारजातम् 'पडिग्गाहेत्ता' प्रतिगृह्य-गृहस्थेभ्य आनीय 'पच्छिमं पोरिसि' For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy