SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिभाष्यावद्भिः उ.११ सू.०-९३ उद्देशकसमाप्तिः २८१ मरणं प्रशंसति तेषां प्रशंसां करोति कुर्वन्तं वा अनुमोदते स परस्मिन् आत्मनि वा मिथ्यात्वस्थिरीकरणादिबहुदोषान् प्राप्नोति, यथा लोका एवं विचारयन्ति यत् इमे साधवः सर्वथा सुस्थिता. त्मनः ते ईमे गिरिपतनादिकं मरणं प्रशंसन्ति अतो निश्चितमेतत् गिरिपतनादिकं मरणं श्रेयस्करमतोऽवश्यमेव करणीयम् नास्ति एतादृशमरणकरणे कोपि दोषः, एवं प्रकारेण मिथ्यात्वमेव स्थिरीकृतं भवति । तथा एवं कुर्वन्तो आज्ञाभङ्गादिकाननेकान् दोषानपि लभेरन् । एवम् बालमरणस्य प्रशंसाकरणे शैक्षकः परिषहपराभूतः विंशतिमरणानां मध्यादेकतरमपि मरणं प्रतिपद्येत तदा निर्दयता समापद्यते, तेन तद्विराधनाजन्यं प्रायश्चित्तं प्राप्नुयात् तस्मात् बालमरणानि न प्रशसेत् । एषु विंशतिविधेषु मरणेषु वैहायसं गृध्रपृष्ठं चेति मरणद्वयमागमज्ञा--जीवदयाचारित्रपतनादिकारणे समुत्पन्ने प्रशंसन्ति, तथाहि-यथा केनापि हिंसकपुरुषेण गृहीतो भवेत् स यदि तं जीवहिंसायांप्रे रयति, अथवा मैथुनार्थिन्या कामिन्या गृहीतो भवेत् सा यदि तं मैथुनसेवनार्थ प्रेरयति एतादृश्यां स्थितौ अगतिकगतिकः सन् वैहायस मरणं समाद्रियते तदा तत्तस्य मरणं प्रशंसनीय भवेत् । तथा धृतिबलसंपन्नो मुनि ध्रपृष्ठमरणं करोतीति साधोराचरणीयत्वेन गृध्रपृष्ठमरणमपि प्रशंसनीयमेव भवति तेनैतद्वयमपि मरणं कारणे प्रशंसायोग्यं भवति । सूत्रे यो निषेधःस दुःखाभिभूतमरणविषयको विज्ञेय इति विवेकः ।। सू० ९२॥ सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥ सू० ९३॥ ॥निसीहज्झयणे एगारसोद्देसी समत्तो ॥११॥ छाया-तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ।।सू० ९३॥ ॥ इति निशीथाध्ययने एकादशोदेशकः समाप्तः ॥११॥ चूर्णी-'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः 'अयपायाणि वा' इत्यारभ्य 'बालमरणाणि पसंसई' इति पर्यन्तप्रायश्चित्तस्थानानां मध्यादेकस्यापि कस्यचित्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा आवज्जई आपद्यते प्राप्नोति 'चाउम्मासियं चातुर्मासिकम् 'परिहारट्ठाणं' परिहारस्थानं प्रायश्चित्तम् 'अणुग्धाइयं' अनुद्घातिकम् गुरुकम् प्रायश्चित्तं लभते इति ॥ सू० ९३॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-- पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैन धर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" ____ चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् एकादशोदेशकः समाप्तः ॥११॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy