________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८० wwwwwwwww
निशीथमचे ज्वलने-अग्नौ प्रवेशनानि 'जलपखंदणाणि वा' जलप्रस्कन्दनानि वा जले उत्प्लुत्य पतनानि वा 'जलणपक्खंदणाणि वा' ज्वलने वन्ही उत्प्लुत्य पतनानि 'विसभक्खणाणि वा' विषभक्षणानि वा 'सत्योपाडणाणि वा' शस्त्रोत्पातनानि वा उच्चस्थानात् शरीरे शस्त्रस्य खङ्गादेः पातनानि 'वलयमरणाणि वा' वलयमरणानि वा, तत्र संयमयोगेषु हीनसत्त्वतया वलनं वलयः संयमान्निव
र्तन, तेन कारणेन अकामतया मरणानि, यद्वा वलयः वस्त्ररज्वादिपाशेन गलस्य वेष्टनं, तेन मरणं, तानि गले रज्वादिकं बद्ध्वा मरणानि वलयमरणानि, 'वसट्टमरणाणि वा' वशार्त्तमरणानि वा इन्द्रियविषयेषु रूपरसादिषु वशवर्तितया आर्त्तस्य दुःखितस्य मरणानि, 'तब्भवमरणाणि वा' तद्भवमरणानि वा, तद्भवमरणं नाम यस्मिन् मनुष्यादिभवे वर्तते तस्यैव भवस्य हेतुषु वर्तमानः आयुः कर्म बद्ध्वा पुनः तत्रैव भवे उत्पत्तुकामस्य यन्मरणं तत् तद्भवमरणमिति कथ्यते तानिनिदानपूर्वकं मरणानोत्यर्थः 'अंतोसल्लमरणाणि वा' अन्तःशल्यमरणानि वा, शल्यं द्विविधं द्रव्यशल्यं भावशल्यं च, तत्र द्रव्यशल्यं बाणाप्रभागादिरूपम् , तस्य नेहाधिकारः, भावशल्यं मूलोत्तरगुणसंलानदोषानालोचने पश्चात्तापरूपम् , अस्यात्राधिकारः, मायानिदानादिशल्यं वा, तद् अन्तः-अन्तःकरणे भवेत् तद् अन्तःशल्यं, तेन मरणानि, 'वेहायसाणि वा' वैहायसानि वा विहायसि आकाशे भवं वैहायसं वृक्षशाखादिषु आत्मन उद्बन्धनं, तानि मरणानि, 'गिद्धपद्वाणि वा गृद्धस्पृष्ठानि वा-गृधेराममांसभक्षकैः पक्षिविशेषः, अथवा गृद्धैः मांसलुब्धकैः शृगालादिभिः स्पृष्टस्य विदारितस्य, अथवा करिकरभरासमादिशरीरान्तर्गतत्वेन यन्मरणं तानि गृध्रस्पृष्टानि गृद्धपृष्ठानि वा मरणानि, अथवा गृधैभक्षितपृष्ठस्य यन्मरणं तद् गृध्रपृष्ठमरणमिति तानि, एतानि विंशतिसंख्यकानि, तथा 'जाव अण्णयराणि वा तहप्पगाराणि वा बालमरणाणि' यावत् अन्यतराणि वा तथाप्रकाराणि वा बालमरणानि 'पसंसइ' प्रशंसति तेषां प्रशंसां करोति तथा 'पसंसंतं वा साइज्जइ' प्रशंसन्तं प्रशंसां कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकार:भाष्यम्-बालमरणाणि वीसइ, अन्नाणि य तारिसाणि मरणाणि ।
जो य पसंसइ पावइ, मिच्छायेज्जाइबहुदोसे ॥ छाया-बालमरणानि विंशति, अन्यानि च तादृशानि मरणानि
___ यश्च प्रशंसति प्रामोति, मिथ्यास्थैर्यादिबहुदोषान् ।
अवचूरिः-यः कश्चित् श्रमणो भिक्षुकः श्रमणी वा यथा तथा येन केनचित् प्रकारेण लोभात् मोहात प्रकारान्तरेण वा बालमरणानि गिरिपतनादिकादारभ्य गृध्रपृष्ठमरणपर्यन्तानि विंशतिप्रकारकाणि अन्यानि वा तादृशानि मरणानि बालमरणानि तन्मध्यात् यत् किमप्येकं
For Private and Personal Use Only