________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बुणिभाष्यावरिः उ०११ सू० ८१-८६ यथाछन्दप्रशंसाद्यनलप्रवाजनादिनिषेधः २७५
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णिवेयणपिंड निवेदनपिण्डम् देवयक्षव्यन्तरनिवेदनाय प्रस्तुतंभक्तादिकं तत् निवेदनपिण्डम् 'भुंजई' भुङ्क्ते देवताधर्थ यत् पिण्डं स्थापितं तादृशं निवेदनपिण्डं यो भिक्षुरुपभुङ्क्ते तथा 'भुंजतं वा साइज्जई' भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ स्० ८१॥
सूत्रम्-जे भिक्खू अहाछंदं पसंसइ पसंसंतं वा साइज्जइ ॥ सू०८२॥ छाया—यो भिक्षुर्यथाछन्दं प्रशंसति प्रशंसन्तं वा स्वदते ॥सू० ८२॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अहाछंद' यथाछन्दं, तत्र छन्दोऽभिप्रायः, तेन यथा येन प्रकारेण स्वस्याभिप्रायस्तदनुसारेण प्ररूपयति करोति स यथाछन्दः प्रोच्यते, तं 'पसंसई' प्रशंसते तस्य प्रशंसां करोति कारयति 'पसंसंतं वा' प्रशंसन्तमन्यं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकारः-- भाष्यम्-जहछंदत्तं दुविहं, परुवणे तह भवेज्ज चरणे य ।
पडिलेहाइसु पढम, बीयं पुण साहुकिरियाम् ॥१॥ छाया-यथाछन्दत्वं द्विविधं प्ररूपणे तथा भवेत् चरणे च ।
प्रतिलेखाविषु प्रथम, द्वितीयं पुनः साधुक्रियासु ॥१॥ अवचूरिः-साधोर्यथाछन्दत्वं द्विविधं भवति, तत्र एकं प्ररूपणे प्ररूपणाविषये, द्वितीयं चरणे चारित्रविषये च । तत्र प्ररूपणे यथाछन्दत्वं यथा-वस्त्रपात्रादीनां नित्यं प्रतिलेखना न कर्त्तव्या किं तत्र निरन्तरं जीवाः परिवसन्ति येन नित्यमेव प्रतिलेखना क्रियते, द्वित्रादिदिवसव्यवधानेन करणे न कोऽपि दोषः । रजोहरणदशिकाः (रजोहरणफलिकाः) ऊर्णादिकर्कशस्पर्शसूत्रः किमर्थ क्रियन्ते, क्षौमिकादिमृदुस्पर्शसूत्रैः किं न क्रियन्ते ? कोऽत्र दोषः :, इत्यादि प्ररूपणम् १॥ चरणे यथाछन्दस्वं यथा-अस्मदापथ सम्पादितमशनादि ग्रहीतव्यं येन यथारुचि भोजनं लभ्यते तेन संयमाराधनं सुकरं भवति, केऽत्राधाकर्मादिदोषाः समापतन्ति, एवं साधुनिमित्तसंपादिताऽशनादिग्रहणरूपं यथाछन्दत्वम् , यथा- शय्यातरपिण्डादानम् , गृहिपात्रग्रहणं, निम्रन्थ्या सह वसनम् , इत्यादिसाधुक्रियासु चरणविषयकं यथाछन्दत्वं भवति । इत्याधाचरणवन्तं यथाछन्दं साधुं न प्रशंसेत् , न वा प्रशंसां कुर्वन्तमन्यमनुमोदेत । यस्तस्य प्रशंसां करोति तथा प्रशंसन्तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ८२।।
सूत्रम्-जे भिक्खू आहछंदं वंदइ वंदंतं वा साइज्जइ ॥ सू० ८३॥ छाया-यो भिक्षुर्यथाछन्दं वन्दते वन्दमान वा स्वदते ॥सू० ८३॥
For Private and Personal Use Only