________________
Shri Mahavir Jain Aradhana Kendra
२६४
www.kobatirth.org
छाया - धर्मश्व द्विविध उक्तः, श्रुतचारित्रलक्षणः ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्याsar द्विधा भवति, तं वदेत् दोषभाग् भवेत् ॥१॥
निशीथसुत्रे
,
अवचूरिः --- धर्मः नरकपातादिदुर्गतिसकाशात् धारकः, स द्विविधो द्विप्रकारको भवति श्रुत्रचारित्रभेदात्, तत्र एकः श्रुतधर्मः अपरः खलु चारित्रधर्मश्च, तत्र श्रुतधर्मः आगमलक्षणः, A पुनर्द्विविधः सूत्रे अर्थे च । चारित्रधर्मस्तु श्रमणधर्मः अयं च चारित्रधर्मोऽपि द्विविधो भवति, अगारधर्मः देशतश्चारित्रभावात्, अनगारधर्मश्च, पुनश्चायं प्रत्येकं द्विविधः - मूलगुणलक्षणः उत्तरगुणलक्षणश्च तस्यैवंप्रकारस्य धर्मस्यावर्णवादी द्विधा द्विप्रकारको भवति देशतोऽवर्णवादः सर्वतोऽवर्णवादश्च । तं तादृशमवर्णवादं यदि श्रमणः श्रमणी वा वदेत् वदन्तं वा स्वदते स दोषभाग् भवेत्, दोषाश्चआज्ञा भङ्गानवस्थामिथ्यात्वादिकास्तेषां स भाजनं भवतीति भावः । यस्मात् कारणात् श्रुतचारित्रलक्षणधर्मस्यावर्णवाद करणे पूर्वोक्ता दोषा भवन्ति तस्मात् कारणात् श्रमणः श्रमणी वा धर्मस्या वर्ण न स्वयं वदेत् न वा वादयेत् न वा धर्मस्यावर्णं वदन्तं श्रमणान्तरं कथमप्यनुमोयेत् ॥ ९ ॥
――――
-जे भिक्खू अधम्मस्स वण्णं वयइ वयंतं वा साइज्जइ ॥ १०॥ -- यो भिक्षुरधर्मस्य वर्ण वदति ददन्तं वा स्वदते ॥सू० १०॥
सूत्रम्
छाया
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अस्स' अधर्मस्य हिंसादिलक्षणस्य 'वण्णं' वर्ण- प्रशंसनं यशः कीर्ति वा 'वयइ' वदतिकथयति लोकानां पुरतो हिंसादिलक्षणधर्मस्य प्रशंसां करोति तथा 'वर्यंत बा साइज्जइ' वदन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, अधर्मस्य प्रशंसने तदनुमोदनजन्यक्रियादोषसद्भावात् ॥ सू० १०॥
सूत्रम् - जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जेतं वा पमज्जंतं वा साइज्जइ || सू० ११॥
छाया -यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा पादौ आमार्जयेत् वा प्रमार्जयेत् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० ११||
For Private and Personal Use Only
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स' अन्ययूथिकस्य अन्यतीर्थिकस्य तापसादे : 'गारत्थियस्स वा' गृहस्थस्य श्रावकादेर्वा 'पाए' पादौ चरणौ ' आमज्जेज्ज वा' आमार्जयेद् वा एकवारं रजोहरणेन वस्त्रेण वा प्रमार्जनं कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेत् अनेकवारम् ' आमज्जेत वा पमज्जंतं वा