________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णिभाष्यावद्भिः उ. ११ स.०-८-११ धर्माधर्मयोरवर्णवर्णवादनिषेधः २६३ कारणादेते दोषाः तस्मात् कारणात् श्रमणः श्रमणी वा अर्द्धयोजनात् परतो गत्वा पात्रादीनां याचनं न कुर्यात् न वा याचनं कारयेत् न वा याचमानं श्रमणमनुमोदेत ॥सू० ७॥
सूत्रम्--जे भिक्खू परं अद्धजोयणमेराओ सपायपहंसि पायं अभिहडं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ॥
छाया-- यो भिक्षुः परमर्द्धयोजनमर्यादातः सापायपथि पात्रमभिहृतमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥सू० ८॥
चूर्णी--- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परमद्धजोयणमेराओं' परमईयोजनमर्यादातः 'सपायपहंसि' सापायपथि सविघ्ने मार्गे सति सापाये मार्गे विद्यमाने सति इत्यर्थः तत्रापायो विघ्नः तेन सहितो मार्गः चौरश्वापदसजलमहानदी वनस्पतिरूपोऽपायस्तेन सहितः तस्मिन् तादृशे मार्गे सति कश्चित् श्रावकः 'पायं' पात्रं यत् 'अभिहडं आहटु दिज्जमाणं' अभिहृतमाहृत्य साधुवसतो आनीय दीयमानं तत् 'पडिग्गाहेई' प्रतिगृह्णाति, यदि मार्गः सापायो भवेत् तत्र गत्वा साधुः पात्रादिकमानेतुं न शक्नोति तदवस्थायां यदि कोऽपि श्रावकः प्रामान्तरात् अर्द्धयोजनादधिकक्षेत्रत आनीय साधोरभिमुखं कश्चित् पात्रादिकं साधवे ददाति तं तादृशं पात्रादिकं साधुः प्रतिगृह्णाति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति इति । अत्र संयमात्मविराधनाऽवश्यम्भा. विनी, यथा-साध्वर्थं संमुखमानीय पात्रादिग्रहणेऽप्कायहरितकायादिसंमर्दजन्या संयमविराधना, सापायमार्गेणागच्छन् दाता श्वापदादिना घातितो मारितो वा भवेत् तेन तस्य स्वजनादिः साधु ताडयेदित्यादिनाऽऽत्मविराधना भवेदतो नैतादृशं पात्रादिकं साधुर्गृहीयादिति भावः ॥सू० ८॥
सूत्रम्--जे भिक्खू धम्मस्स अवन्नं वयइ वयंतं वा साइज्जइ ॥ छाया--यो भिक्षुधर्मस्यावर्णं वदति वदन्तं वा स्वदते ॥सू० ९॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'धम्मस्स' धर्मस्य वतचारित्रलक्षणस्य 'अवणं अवर्णम् अवर्णवादम् , तत्र वर्णः प्रशंसनं स्तुतिरित्यर्थः न वर्णोऽवर्णः निन्दनं तम् 'वयइ' वदति प्रकाशयति लोकानां पुरतः धर्मस्य निन्दा करोति तथा 'वदंत वा साइज्जई' वदन्तं वा स्वदते अनुमोदते, यो हि श्रमणः श्रमणी वा श्रुतचारित्रलक्षणधर्मस्यावणेवादं वदति वदन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः-- भाग्यम् --धम्मो य दुविहो वुत्तो, सुयचारित्तलक्खणो ।
तस्सावण्णो दुहा होइ, तं वए दोसभा भवे ॥१॥
For Private and Personal Use Only