SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घूणभाष्यावद्भिः उ० १० सू० २०-३१ उद्घातिकानुद्घातिकसहसंभोगनिषेधः २४१ सूत्रम्-जे भिक्खू उग्घाइयं सोच्चा णच्चा संभुंजइ संभुजंतं वा साइज्जइ ॥ सू० २०॥ छाया-'यो भिक्षुरुद्घातिकं श्रुत्वा ज्ञात्वा च संभुङ्क्ते संभुजानं वा स्वदते ॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्घाइयं उद्घातिकं लघुप्रायश्चित्तधारिणम् , तत्र उद्घातिकं नाम यत् सान्तरं वहति, अयं साधुलघुमासिकं प्रायश्चित्तं वहति इति ‘सोच्चा' श्रुत्वा अन्यसकाशात् 'णच्चा' ज्ञात्वा स्वयमेव सद्यो ज्ञात्वा कारणोपपत्तितो वा ज्ञात्वा--'संभुंजइ' संभुङ्क्ते 'अयं लघुकं प्रायश्चित्तं वहति' इति श्रुत्वा ज्ञात्वाऽपि तेन श्रमणेन सह एकत्र मण्डल्या माहारमाहरति तथा 'संभुंजतं वा साइज्जई' संभुञानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवतीति ॥२० २०॥ । सूत्रम्-जे भिक्खू उग्घाइय हे सोच्चा णच्चा संभुंजइ सं जंतं वा साइज्जइ ॥ सू० २१॥ छाया-- यो भिक्षुरुद्धातिकहेतुं श्रुत्वा शास्वा संभुङ्क्ते संभुञ्जानं वा स्वदते ॥ चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्याइयहे' उद्घातिकहेतु-उद्घातिकं नाम यत् प्रायश्चित्तं सान्तरमुह्यते लघुप्रायश्चित्तमित्यर्थः, तस्य हेतुं कारणम् , अस्य साधोलघुप्रायश्चित्तसेवनस्य कारणं वर्त्तते, इत्येवं कारणम्, अथवा प्रायश्चित्तापन्नस्य यावत्प्रायश्चित्तमनासेवितं भवेत्तावत् हेतुरुच्यते, स द्विधा उह्यते शुद्धितपसा परिहारतपसा वा, तं तादृशं हेतुम् 'सोच्चा' श्रुत्वा अन्यसकाशात् तथा 'णच्चा' ज्ञात्वा स्वयमेव तत्कारणं विज्ञाय अयं लघुमासिकप्रायश्चित्तहेतुमानिति अन्यसाधुसकाशात् श्रुत्वा स्वयमेव वा बुद्धिद्वारा विज्ञायापि तेन सह एकत्रमण्डल्याम् 'संभुजई' संभुङ्क्ते 'संभुजतं वा साइज्जइ' संभुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० २१॥ सूत्रम्-जे भिक्खू उग्धाइयसंकप्पं सोच्चा णच्चा संभंजइ संभुंजतं वा साइज्जइ ॥ सू० २२॥ छाया–यो भिक्षुरुद्घातिकसंकल्पं श्रुत्वा ज्ञात्वा संभुङ्क्ते संभुञ्जानं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उग्याइयसंकप्पं उद्घातिकसंकल्पम्-उद्घातिकप्रायश्चिसंकल्पवन्तं यथा--'अहमुद्घातिकप्रायश्चित्तं ग्रहीष्यामी'-ति स्वविषयकं संकल्पम्, अथवा गुरुणा कथितो भवेत् यत् तवैतत् प्रायश्चित्तं दास्यामी'-ति गुरुविषयकंसंकल्पम् , अयमपि द्विधा उह्यते शुद्धतपसा परिहारतपसा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy