________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०
निशीथसूत्रे
छाया -यो भिक्षुरनागतं निमित्तं व्याकरोति व्याकुर्वन्तं वा स्वदते ॥ ९ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणामयं निमित्तं वागरेs' अनागतं निमित्तं व्याकरोति, तत्र अनागतं भविष्यत्कालिकं सुखदुःखलाभालाभ जीवनमरणविषयकं यथा तवैतावत्कालानन्तरं सुखदुःखादिकं भविष्यति, लोके सुभिक्षं दुर्भिक्षं वा भविष्यति राज्यपरिवर्तनं युद्धादिकं वा भविष्यति, इत्यादिरूपं निमित्तं 'वागरेइ' व्याकरोति कथयति 'वागतं वा साइज्जइ' व्याकुर्वन्तं भविष्यत्कालिक लाभालाभादिकं कथयन्तं प्रकाशयन्तं वा स्वदतेऽनुमोदते, स प्रायश्चित्त भागी भवति ।
अत्राह भाष्यकारः -
भाष्यम् - लाभालाभं सुहं दुक्खं, जीवियं मरणं तहा | वागरे गिहिमाईणं, संजमत्तविराहओ ||
छाया - लाभालाभं सुखं दुःखं जीवितं मरणं तथा । व्याकुर्याद् गृह्यादोनां संयमात्मविराधकः ॥
Acharya Shri Kailassagarsuri Gyanmandir
अवचूरि : – लाभालाभौ सुखदुःखे जीवितं तथा मरणम्, एतत् षड्वस्तुजातम् अतीतानागतवर्तमानकालविषयकम् गृहिणां गृहस्थानां श्रावकाणां तथा आदिशब्दात् अन्यतीर्थिकानां वा व्याकुर्यात् कथयेत् स साधुः संयमात्मविराधको भवति । तत्र संयमविराधना निमित्त भाषणे साधुक्रियाव्यवच्छेदरूपा, आत्मविराधना चाशुभे संपन्ने साधुं ताडयेत्, राजपुरुषादिना साधुं ग्राहयेत्, राजादिना वा निगृहीतो भवेत्, इत्यादिका अनेके दोषाः, शास्त्रनिषिद्धत्वेनाज्ञाभङ्गादिका दोषाश्च भवेयुः तस्मात्कारणात् श्रमणः त्रिकालविषयकं लाभालाभसुखदुःख जीवितमरणादिकं निमित्तं कदाचिदपि न कथयेत् स्वयम्, न वा परद्वारा प्रकाशयेत्, न वा प्रकाशयन्तमनुमोदेत । अत्रैतदुदाहरणम्आसीत् मगधदेशे अश्वकर्णो नाम तलवरः (कोट्टपालः) स कदाचित् युद्धार्थं गतवान्, कदाचित् तस्य गेहे भिक्षार्थ कश्चित् साधुरागतः, तत्पत्न्य पृष्टः - भो साधो ! मम पतिः कदा आगमिष्यति ? साधुना कथितम् श्रवः समागमिष्यति । ततः सा द्वितीय दिवसे कृतशृङ्गारा तदागमनं प्रतीक्षमाणा तिष्ठति तावत् अश्वकर्णः तळवरः समागतः । स कृतशृङ्गारां पत्नीमपृच्छत्कथं त्वं कृतशृङ्गारास्थिता ? तथा कथितम् भवत आगमनसमाचारं ज्ञात्वा तेन कथितम् - कथं ज्ञातं त्वया ? ततस्तया कथितम् - साधुसकाशात् विज्ञाय कृतशृङ्गारा स्थिताऽस्मि । तस्मिन्नेवावसरे स एव साधुः भिक्षार्थं समागतः असौ तलवरस्तत्परीक्षार्थं तं साधुं पृष्टवान् मम वडवाया 'उदरे कीदृशः गर्भो विद्यते ? साधुनिमित्तवशादवोचत् तस्याः गर्भे श्वेततिलको घोटकस्तिष्ठति, इति श्रुत्वा स तलवरस्तत्परिज्ञानार्थं वडवां हतवान्, तादृशमेव गर्म दृष्ट्वा साश्चर्यो जातः । साधुश्व स्वस
ततः
For Private and Personal Use Only