SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूर्णिभाष्यावचूरिः उ० १० सू० ७-९ अतोतवर्त्तमानानागतनिमित्तभाषणनिषेधः २२९ पृच्छति च तत्रत्यलोकान् भोः ! समृद्धजनसंकुलोऽयं ग्रामः पूर्वमासीत् सम्प्रति कथमेतादृशः समृद्धजनशून्यो जातः ? लोकाः कथितवन्तः - भो आचार्याः, लघुग्रामेऽत्र भवत्सेवा निमित्तमेवात्रागत्य ते समृद्धजना निर्वासिताः आसन्, भवद्विहारानन्तरं गतवन्तस्ते स्वस्वस्थाने । इति श्रुत्वा-आचार्यश्चिन्तयति- अहो ! अस्माभिरत्राघाकर्मादिदोषदुष्ट आहारा दिरवश्यं परिभुक्तस्ततः प्रायश्चित्तस्थानं प्राप्ता वयमिति तद्दोषिनिवारणार्थं प्रायश्चित्तं करणीयं स्यादिति शिष्यसहितः स शास्त्रोक्तं प्रायश्चित्तं कृतवान् । तस्मात् कारणात् दर्शनार्थमागताना मशनादि साधुभिः कदापि कथमपि न ग्रहीतव्यम्, न वाऽन्यं ग्राहयेत्, गृह्णन्तं वाऽन्यं श्रमणं नानुमोदयेदिति । सू०६ ।। सूत्रम् — जे भिक्खू तीतं निमित्तं कहे कहतं वा साइज्जइ ॥ सू०७॥ छाया 1 यो भिक्षुरती निमित्तं कथयति कथयन्तं वा स्वदते ॥ सू० ७ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'तीतं निमित्तं' अतीतम् भूतकालिकम् भूतकाले जातं सुखदुःखलाभालाभ जीवनमरणभेदात् षडूविधं निमित्तम् 'कहेइ' कथयति लोकानां पुरतः प्रकाशयति, अतीतकालिकं ज्योतिःशास्त्रोक्त ग्रहादिजन्यं सामुद्रिक शास्त्रोक्तरेखादिजन्यं च निमित्तं स्वस्य सत्यनिमित्तज्ञातृत्व प्रख्यापनार्थं कथयति-यथा कोऽप्यतीतकाले केनापि स्वस्य शारीरिक-मानसिक सुखदुःखादिविषयो लाभालाभ जीवनमरणादिविषयो वा प्रश्नः कृतोऽभूत् तद्विषये तं वदेत्-मया तुभ्यं यद् यत् कथितं तत्तत्सर्वं सत्यतया त्वयाऽनुभूतम्, इत्यादि - रूपमतीतकालविषयकं निमित्तं प्रकाशयति । तथा 'कहेंतं वा साइज्जइ' कथयन्तं वाऽन्यं श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ||सू० ७|| सूत्रम् -- जे भिक्खू पडुप्पण्णं निमित्तं वागरेइ वागरेंतं वा साइज्जइ ॥ छाया -यो भिक्षुः प्रत्युत्पन्नं निमित्तं व्याकरोति व्याकुर्वन्तं वा स्वदते ॥ सु०८ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः काश्चद् भिक्षुः 'पडुप्पन्नं' प्रत्युत्पन्नम् वर्तमानकालिकम् 'निमित्तं निमित्तं ज्योतिःशास्त्रादिजन्यम् । यथा कोऽपि पृच्छेत्-विदेशस्थितोऽमुको मम स्वजनः संप्रति सुखी दुःखी वाऽस्ति ? लाभवान् अलाभवान् जीवितो मृतो वा ?, तथा अहं संप्रति सुखी दुःखी वाऽस्मि ?, तथा मया अमुकस्य पार्श्व मज्जनः प्रेषितः सोऽमुको जनस्तस्य मिलितो न मिलितों वा ? इत्यादिरूपं निमित्तं 'वागरेइ' व्याकरोति प्रकाशयति कथयतीति यावत् 'वागर्रेतं वा साइज्जइ' व्याकुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८ ॥ सूत्रम् — जे भिक्खू अणागयं निमित्तं वागरेइ वागरेंतं वा साइज्जइ ॥ सू०९ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy