________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ दशमोदेशकः ॥ व्याख्यातो नवमोद्देशकः, अथ दशमोद्देशकः प्रारभ्यते, अस्य दशमोदेशकस्य नवमोद्देशकेन सह कः सम्बन्ध इति चेदत्राह भाष्यकार:--'रायपिंड' इत्यादि । भाष्यम्-रायपिडं च मा मुंजे, तहा दासीनिमित्तगं ।
गिद्धो बयइ आगाढं, दसमे तन्निसेहणं ॥१॥ छाया-राजपिण्डं च मा भुक्ष तथा दासीनिमित्त ।
गृद्धो वदति आगाई, दशमे तन्निषेधनम् ॥१॥ अवचूरिः-पूर्व नवमोदेशकान्तिमसूत्रे राजपिण्डं दासीनिमित्तकं पिण्डं च न भुञ्जीत इति भगवता निषिद्धं तत आचार्यः शिष्यं कथयति-हे आर्य ! 'रायपिंडं' राजपिण्डं तथा दासीनिमित्तकं पिण्डं मा भुव, एवमुक्तः शिष्यः 'गिद्धो' गृद्धः राजपिण्डे दासीनां रूपे च मूर्छितः सन् तन्निवारणे कृते आचार्यम् आगाद-परुषं वदतीति दशमेऽस्मिन् उद्देशके तन्निषेधनं तस्य तादृशस्यागाढवचनस्य निषेधनं निवारणं कृतम् । यस्मात् राजादौनामशनादिकं विशिष्ट भवति तत्र, तथा राजादीनां दास्यः प्रायः सौन्दर्यशालिन्यो भवन्ति आहारप्रसङ्गाहासीभिः सह परिचयसंभवात्तद्रूपे च मूर्च्छितो मोहोदयात्संयमाद् भ्रष्टो भवितुमर्हति तस्मात्कारणाद् राजपिण्डादेनिषेधे शिष्यः परुषं वदेदिति तन्निषेधनमत्र प्रतिपादयिष्यते । एष एव नवमोदेशकेन सह दशमौशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य :दशमोद्देशकस्येदमादिसूत्रम्- 'जे भिक्खू भदंत' इत्यादि ।
सूत्रम्-जे भिक्खू भदंतं आगाढं वयइ वयंतं वा साइज्जइ |सू०१॥
छाया-यो भिक्षुर्भदन्तमागाढं वदति वदन्तं वा स्वदते ॥२०॥
चूर्णी- 'जे भिक्खू' इत्यादि । जे भिक्खू यः कश्चिद् भिक्षुः 'भदंत' भदन्तं 'भदि कल्याणे सुखे च' इति धातोः रूपम् । तेन भदन्तं कल्याणकारकम् आचार्यमुपाध्यायं पर्यायज्येष्ठं च प्रति 'आगाद' आगाढम्, तत्र गाद कठोरम् अत्यर्थ गाढमागाढं सरोषवचनम् 'वयई' वदति कथयति। यो भिक्षुः राजपिण्डादिषु गृद्धः आचार्यादिना निवारित आचार्यादिकं अतिशयाधिक कठोरवचनं वदति तथा 'वयंत वा साइज्जई' वदन्तं वा स्वदते । यो भिक्षुराचार्येण राजपिण्डादिषु निवारित माचार्यादिकं आशातनारूपं कठोरवचनं वदति तादृशं श्रमणान्तरं यो अनुमोदते च स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्-आगाई दुविहं बुत्तं, सूयया य अश्यया ।
तेसिं दोण्हं सख्वं च, णेयं सत्यानुसारओ।
For Private and Personal Use Only