________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धूर्णिभाष्यावचूरिः उ०९ सू.११-१२ राजादिसभासमये तत्रत्याहारग्रहणनिधः २११ भवन्ति तत्र स्थितास्ते अशनादिकं चतुर्विधमाहारजातं पाचयन्ति तादृशाऽशनादि तेभ्यो यो भिक्षुर्गृह्णाति 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १०॥
सूत्रम्-जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अण्णयरं उववूहणियं समीहियं पेहाए तीसे परिसाए अणुठियाए अभिण्णाए अवाच्छिण्णाए जा तं असणं वा ४ पडिग्गाहेइ पग्गिाहें वा साइज्जइ ॥ सू० ११ ॥
छाया-यो भिक्षुः राक्षः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामन्यतरद् उपहणीयं समीहितं प्रेक्ष्य तस्यां परिषदि अनुत्थितायां अभिन्नायां अव्यवच्छिन्नायां यः तद्सनं वा ४ प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥सू० ११॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' इत्यादि राजादीनां 'अण्णयरं' यत् अन्यतरत् अशनादिषु मध्ये यत् किमप्येकमशनादिकम् 'उववृहणियं' उपवृंहणीयम् शरीरपुष्टिकारकम् मेधेन्द्रियायुष्यादिबलबर्द्धकं च, एवादृशे सति पुनः 'समीहियं' समीहितम् मनोऽभिलषितम् 'पेहाए' प्रेक्ष्य दृष्ट्वा 'तीसे परिसाए' तस्यां यस्यां परिषदि सर्वक्षत्रियादिकाः संस्थिता तस्यां च परिषदि 'अणुट्टियाए' अनुत्थितायां यावत्पर्यन्तं सभा नोस्थिता तस्यां 'अभिण्णाए' अभिन्नायां यावत्पर्यन्तम् एकोऽपि जनस्ततो निर्गतो न भवति सा अभिन्ना तस्यां 'अव्वोच्छिण्णाए' अव्यवच्छिन्नायां यदा सर्वे विनिर्गता भवन्ति तदा सा व्यवच्छिन्ना, न व्यष्छिन्ना अव्यवच्छिन्ना तस्यां 'जो तं असणं वा ४ पडिग्गाहेइ' यः तद् उपवृहणीयादिगुणयुक्तमशनपानखाद्यस्वाद्यं प्रतिगृह्णाति स्वोकरोति 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृहन्तं वा स्वदते तादृशमशनादिक यो गृहाति गृहन्तमनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्-मेहाइंदिय आऊआईणं जं विवहगं होई ।
उववृहणीयमसणं, रायसहाओ य नो गिण्हे ॥ छाया--मेधेन्द्रियायुरादीनां यत् विवर्धकं भवति ।
उपबृंहणीयमशनं रामसभातश्च नो गृहीयात् ।। अवचूरिः- 'मेहा' इत्यादि । तत्र मेधा धारणावती बुद्धिः, कालान्तरे अविस्मरण धारणा तस्याः, इन्द्रियाणि श्रोत्रादीनि, तेषाम्, आयुश्च जीवनस्थितिरूपं तस्य, उपलक्षणाद् देहस्य च विबर्द्धकं भवति तत् उपबृहणीयमशनं चतुर्विध भक्तादिकम् अशनं पानं खाद्यं स्वाद्यं साधुः राजसभातः,
For Private and Personal Use Only