SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ निशीथसूत्र सम्पादितं तादृशमोदनादिकं कान्तारभक्तम् ८, 'दुभिक्खमतं वा ९' दुर्भिक्षभक्तं वा दुर्भिक्षसमये ये अन्नादिकं न प्राप्नुवन्ति तदर्थं सम्पादितं भक्तं वा दुर्मिक्षभक्तम् ९, दुकालभत्तं वा दुष्कालभक्तं वा दुष्कालपीडितेभ्यः संपादितं भक्तम् । तत्र एकवार्षिकान्नावनुत्पत्तिरूपः समयो दुर्भिक्षम्, अनेकवार्षिकान्नाद्यनुत्पत्तिरूपः समयो दुष्कालशब्देन कथ्यते इत्येवमनयोर्भेदः १०, 'दमगभत्तं वा ११' दमकभक्तं वा, तत्र द्रमको दरिद्रो भिक्षुकः, तदर्थं सम्पादितं भक्तं वा ११, 'गिलाणमत्तं वा १२' ग्लानभक्तं वा तत्र ग्लानो ज्वरादिदीर्घरोगपीडितः, तदर्थे सम्पादितं भक्तं ग्लानभक्तम् १२, 'बद्दलियाभत्तं वा १३' बलिकाभक्तं वा, अतिवृष्टिपीडितजनार्थं सम्पादितमोदनादिकं बईलिकाभक्तम् १३, 'पाहुणभत्तं वा १४ ' प्राचूर्णकभक्तं वा प्राघूर्णकार्थं सम्पादितं प्राघूर्णकभक्तम् १४, एतादृशचतुर्दशप्रकारकं राजभवने सम्पादितं भक्तं 'पडिग्गाहे ' प्रतिगृह्णाति स्वयं स्वीकरोति, अन्यं श्रमणं स्वीकारयति वा, तथा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते स प्रायश्चित्तभागी भवति ||सू० ६ || सूत्रम् - जे भिक्खू रणो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाईं छदोसपयाईं अजाणिय अपुच्छिय अगवेसिय परं चउरायपंचरायाओ गाहावइकुलं पिंडवायपडियाए निक्खमइ वा पविसइ वा निक्खमंतं वा पवितं वा साइज्जइ तंजा - कोट्टागारसालाणि वा भंडागारसालाणि वा पाणसालाणि वा खीरसालाणि वा गंजसालाणि वा महाणससालाणि वा ॥० ॥ छाया - यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्द्धाभिषिक्तानामिमानि पड़ दोषपदानि अज्ञात्वा अपृष्ट्वा अगवेषयित्वा परं चतूरात्रपञ्चरात्रात् गाथापतिकुलं पिण्डपातप्रतिशया निष्क्रामति वा प्रविशति वा निक्रामन्तं वा प्रविशन्तं वा स्वदते, तद्यथाकोष्ठागारशालानि वा भण्डागारशालानि वा पानशालानि वा क्षीरशालानि वा गञ्जशालाभि वा महानसशालानि वा ॥ सू० ७ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कचिद् भिक्षुः 'रष्णो' इत्यादि राजाatri 'इमाई' इमानि वक्ष्यमाणानि 'छद्दोसपयाई' षड् दोषपदानि दोषस्थानानि यत्र निष्क्रमणेन प्रवेशेन च श्रमणः प्रायश्चित्तभाग् भवति, तानि दोषपदानि तदयमाणानि कोष्ठागारादीनि 'अजाणिय' अज्ञात्वा, तत्र लानि वर्त्तन्ते, इति स्वबुद्धया सम्यग् ज्ञानमन्तरेणेत्यर्थः अपुच्छिय' अपृष्ट्वा पूर्वदृष्टेषु परेभ्यः पृच्छादिकमकृत्वा 'अगवेसिय' अगवेषयित्वा अदृष्टेषु गवेषणं यथा - कानि वाऽऽयतनानि ?, कुतोमुखानि वा ? कस्मिन् वा स्थाने तानि किंचिह्नानि वा वानि ? इत्यादिरूपं गवेषणमकृत्वा For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy