________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mwww
१९८
निशीथसूत्रे कुत्रचित् स्तुपमुद्दिस्यापि लोका उत्सवं कुर्वन्ति तादृशस्तूपमहोत्सवेषु वा 'चेइयमहेसु वा' चैत्यमहोत्सवेषु वा चैत्यानि नाम मृतकदाहस्थाने क्रियमाणाश्चिह्नविशेषाः श्मशानादिषु निर्मिता भवन्ति, तेषां महोरसवेषु 'रुक्खमहेसु वा' वृक्षमहेषु वा कुत्रचित् वृक्षविशेष वटपिप्पलादिकमुद्दिश्य उत्सवाः क्रियन्ते तेषु 'गिरिमहेस वा' गिरिमहेषु वा, तत्र गिरयः पर्वताः, तानुद्दिश्य क्रियमाणा महोत्सवाः पर्वतादिकमुद्दिश्यापि यत्र महोत्सवाः क्रियन्ते तत्र दरिमहेसु वा' दरीमहेषु वा, तत्र दरी-गिरिकन्दरा, तदुद्देशेन क्रियमाणा महोत्सवा दरीमहाः तेषु वा 'अगडमहेसु वा' अगडमहेषु वा, यत्र कूपसमीपे पशूनां जल पानार्थ गर्तादिकं करोति तादृशगर्तविशेषा अगडाः, तेषां महोत्सवेषु 'तडागमहेषु वा' तडागमहेषु वा, तत्र तडागः सामान्यजलाशयः, तदुद्देशेन क्रियमाणा उत्सवाः तडागमहाः, तेषु वा 'दहमहेसु वा' हृदमहे सु वा, तत्र हृदो नाम अगाधजलाशयः, तदुद्देशेन क्रियमाणा उत्सवा हृदमहाः, तेषु वा, 'णईमहेसु वा' नदीमहेषु वा-नदीविशेषमुद्दिश्य क्रियमाणेषु महोत्सवेध 'सरमहेस वा' सरोमहेषु वा, तत्र सरः तडागविशेषः तदुद्देशेन क्रियमाणा महोत्सवाः सरोमहाः, ते. वा 'सागरमहेसु वा' सागरमहेषु वा-समुद्रमुद्दिश्यक्रियमाणमहोत्सवेषु वा 'आगरमहेसु वा' आकरमहेषु वा, तत्राकरः सुवर्णादीनामुद्गमस्थानं, तदुद्देशेन क्रियमाणा उत्सवा आकरमहाः, तेषु आकरमहेषु वा 'अण्णयरेसु वा तहप्पगारेसु विख्वरूवेसु महामहेसु' अन्यतरेषु वा तथाप्रकारेषु पूर्वोक्तमहोत्सवसदृशेषु विरूपरूपेषु नानाप्रकारकेषु महामहेषु अन्यजातीयकेष्वपि जन्मपरिणयनादिमहामहोत्सवेषु जायमानेषु तत्र 'असणं वा ४' अशनादिकं चतुर्विधमाहारम् उपलक्षणात् वस्त्रपात्रादिकं वा 'पडिग्गाहेई' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते । यो हि भिक्षुरुपयुक्तेषु महोत्सवेषु गत्वा राज्ञो मूभिषिक्कादीनां वा अशनादिकं स्वयं गृह्णाति अन्यद्वारा ग्राहयति वा गृह्णन्तं वा अनुमोदते । एतानि महारम्भस्थानानि, अत्र षट्कायोपमर्दनं भवति, एषु स्थानेषु राजादीनां भिक्षाग्रहणे साधोः रसलोलुपता सिध्यति, षट्कायोपमदेनजन्या दोषा अपि समापधेरन् , तस्मात् कारणादत्रतो यदि यः साधुरशनादिकं गृह्णाति सोऽवश्यं प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थादिका दोषा अपि समापद्यन्ते इति भावः ॥१५॥
सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उत्तरसालंसिवा उत्तरगिहंसि वारीयमाणाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० १६॥
छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिकानां उत्तरशालायां वा उत्तरगृहेषु वा रीयमाणानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ।।सू०१६॥
For Private and Personal Use Only