SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिमा० उ०८ सू०१५ समवायपिण्डनिकरेन्द्रमहादिषु राजादीनां भिक्षाग्रहणनिषेधः १९७ आगरमहेसु वा अण्मयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेत वा साइज्जइ॥१५॥ ___ छाया-यो भिक्षुः राक्षः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां समवायेषु वा पिण्डनिकरेषु वा इन्द्रमहेषु वा स्कन्दमहेषु वा रुद्रमहेषु वा मुकुन्दमहेषु वा भूतमहेषु वा यक्षमहेषु वा नागमहेषु वा स्तूपमहेषु वा चैत्यमहेषु वा वृक्षमहेषु वा गिरिमहेषु वा दरो. महेषु वा अगडमहेषु वा तडागमहेषु वा इदमहेषु वा नदीमहेषु वा सरोमहेषु वा सागर महेषु वा आकरमहेषु वा अन्यतरेषु वा तथाप्रकारेषु विरूपरूपेषु महामहेषु अशनं वा पानं वा खाद्यं वा खाद्य प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते । सू० १५॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रण्णो' राज्ञः राजसिंहासने स्थितस्य 'खत्तियागं' क्षत्रियाणां क्षत्रियत्वजातिविशिष्टानां ग्रामपतीनाम् 'मुदियाणं मुदितानां तत्र मुदिता जात्या शुद्धाः मातापित्रादिना शुद्धवंशीया इत्यर्थः, तेषाम् 'मुद्धाभिसिताणं' मूर्धाभिषिक्तानाम् , तत्र पितृपितामहादिक्रमेण राज्येऽभिषिक्ता मूर्धाभिषिक्ताः युवराजपदेऽभिषिक्ता बा, तेषां मूर्धाभिषिक्तानाम् , अत्रोपलक्षणात-अमात्य-पुरोहिते-श्वर-तलवर-माडम्बिककौटुम्बिके-भ्य-श्रेष्ठि-सेनापत्या-दीनामपि ग्रहणं कर्त्तव्यम् । राजाद्यतिरिक्तानाममात्यादीनामपि वक्ष्यमाणेषु समवायादिषु इन्द्रमहादिषु च साधुरशनादिकं न गृह्णीयादिति सम्बन्धः । तदेव दर्शयति-'समवाएसु वा' इत्यादि । 'समवाएमु वा' समवायेषु वा समानवयस्यसमुदायेषु, यत्र समवयस्का मिलित्वा गोष्ठोभक्तं कुर्वन्ति तादृशेषु सरवायेषु 'पिंडनियरेसु वा पिण्डनिकरेषु वा, यत्र सपिण्डाः (एकमूलषुरुषाः) कुटुम्बिनो मिलित्वा पितृपिण्डदानं कुर्वन्ति तत्र, अथवा-पिण्डो नाम दायभक्तं यत्र दायादा मिलित्वा भुञ्जते तस्य निकरषु दायभक्तसमूहेषु वा, 'इंदमहेसु वा इन्द्रमहेषु वा, तत्र इन्द्रो देवराजस्तस्य मह उत्सवः, तथा चेन्द्रं देवराजमुद्दिश्य क्रियमाणेपूरसवेषु कार्तिकशुल्कप्रतिपदि देवराजोदेशेन महानुत्सवो भवतीति लोकाचारः, तादृशोत्सवेषु वा 'खंदमहेसु वा' स्कन्दमहेषु वा-स्कन्दः कार्तिकेयो महादेवपुत्रो देवविशेषः तदुद्देशेन क्रियमाणेषत्सवेषु वा 'रुद्दमहेसु वा' रुद्रमहेषु वा-रुद्रमहोत्सवेषु वा, तत्र रुद्रः शिवस्तमुद्दिश्य क्रियमाणेपूत्सवेषु 'मुगुंदमहेसु वा' मुकुन्दमहेषु वा, तत्र मुकुन्दः कृष्णः तस्योत्सवा मुकुन्दमहाः कृष्णजन्माष्टभ्या. द्युत्सवाः, तादृशमहोत्सवेषु 'भूतमहेसु वा' भूतमहेषु वा, तत्र भूतानां व्यन्तरदेवविशेषाणां महा उत्सवा भूतमहाः, यादृशोत्सवेषु भूताः पूज्यन्ते तादृशमहोत्सवेषु 'जक्खमहेषु वा' यक्षमहेषु का, तत्र यक्षो व्यन्तरदेवविशेष एव, तस्य महा उत्सवविशेषाः, यत्र महोत्सवे यक्षाः पूज्यन्ते तादृशमहोत्सवेषु 'णागमहेसु वा' नागमहेषु वा, तत्र नागाः सर्पाः, येषु महोत्सवेषु नागाः पूज्यन्ते नागपंचमीतिलोकप्रसिद्धादिमहोत्सवेषु 'थूभमहेसु वा' स्तूपमहेषु वा-स्तूपानां महोत्सवाः, स्तूपः-स्मृतिस्तम्भः, For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy