SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९० निशीथसूत्रे " अन्यया कयाचित् सम्बन्धवर्जितया परिचितया अपरिचितया वा सह कथं वसेत् वासं कुर्यात् न कदाचिदपि वसेदिति भावः । गृहिणामप्येष निषिद्धः उक्तञ्चान्यत्रापि , Acharya Shri Kailassagarsuri Gyanmandir - " मात्रा स्ववा दुहित्रा वा न विविकासनो भवेत् । बलवानिन्द्रियग्रामो, विद्वांसमपि कर्षति ॥ १॥ भा० गा० १ ॥ 'सामने ' इत्यादि । 'मुणिस्स' मुनेः सामन्येनापि स्त्रीभिः सार्द्धं संवासो भगवता निषिद्धस्तर्हि किं पुनः 'विहार माइसु' विहारादिषु - मादिपदेन स्वाध्याये आहारे उच्चारादिपरिष्ठापने विशेषतोऽनार्यनिष्ठुर मैथुनाश्रमण प्रायोग्यकथासु यत् ताभिः सह वासं कुर्यात्, भिक्षूणां कुत्रापि पुरुषसाक्षिणमन्तरेण स्त्रीभिः सह सामान्यवार्त्तापि न कल्पते इति भावः ॥ भा० गा० २ ॥ 'थी कहा' इत्यादि । 'थीसु' स्त्रीषु स्त्रीणां मध्ये काऽपि या धार्मिकी प्रशस्ता वा कथा भवेत् सापि भगवता प्रतिषिद्धा तहिं किं पुनर्या अनार्या अप्रशस्ता कथा भवेत् सा स्त्रीणां मध्ये कथ्यते, न काचिदपि कथ्यते इति भावः ॥ भा० गा० ३ || अथैतद्विषये प्रायश्चितं प्रदर्श्यते - 'जो एवं ' इत्यादि । यः कोऽपि श्रमणः एवमाचरति स्त्री सहवासकथाकथनादिकं करोति स ' आणाभंग' आज्ञाभङ्गं तीर्थकराज्ञाभङ्गदोषम्, अनवस्थादोषं, मिथ्यात्वं, विराधनां, - संयमात्मविराधनां प्राप्नोति । तत्र संयमविराधना स्पष्टैव । स्त्रिया सह संवासं विहारादिकं वा कुर्वन्तमब्रह्मसेवनशङ्कया साधुं मारयेत् राजपुरुषादिना ग्राहयेद् वा, तेनात्मविराधनाऽवश्यम्भाविनी 'तुम्हा' तस्मात् कारणात् एतान् विहारादिकान् खिया सह 'विवज्जेज्जा' विवर्जयेत्, भिक्षुर्न कुर्यादिति भावः ॥ भा०गा० ४ ॥ 1 एवं प्रथमसूत्रोक्तक्रमेणैव इतोऽग्रे द्वितीयसूत्रादारम्य नवमसूत्रपर्यन्तमष्टावपि सूत्राणि व्याख्येयानि । तेषु विशेषपदानि व्याख्यायन्ते, तथाहि 'जे भिक्खू उज्जाणंसि वा' इत्यादि । 'उज्जाणंसि वा' उद्याने वा, तत्रोद्यानमुपवनं यत्र लोकाः क्रीडार्थ गच्छन्ति 'उज्जाणगिहंसि वा' उद्यानगृहे वा उद्यानस्थितं क्रीडाकरणाय समागतानां पुरुषाणां निवासस्थानम् 'उज्जाण सालंसि वा' उद्यानशालायां वा उपवनस्थितशालायां 'धर्मशाला' इति लोकप्रसिद्धलक्षणायाम् 'निज्जाणंसि वा निर्याणे वा, निर्याणं राज्ञां निर्गमनमार्गः येन मार्गेण राजा निर्गतो भवति, येन राजा गच्छति आगच्छति च तादृशस्थानं, तस्मिन् निर्याणे वा 'निज्जाणगिहंसि वा' निर्याणगृहे वा राजमार्गस्थितगृहे 'निज्जाणसालंसि वा' निर्याणशालायां वा राजमार्गस्थितशालायां विहारदिकं करोति ॥ सू० २ ॥ For Private and Personal Use Only 'जे भिक्खू असि वा' इत्यादि । 'अहंसि वा' अट्टे वा ग्रामादिप्राकारस्याधोभागे 'अट्टालयंसि वा' अट्टालिकायाम् नगरस्य यः प्राकारः तस्यैकदेशे या अट्टारिका तस्यां वा 'चरियंसि वा '
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy