SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्णिमा यावद्रिः उ.७ सू. ६८-७६ मातृप्रामप्रकरणम् १७९ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अणंतरहियाए पुढवीए णिसीयावेज्ज वा तुयद्यावेज्ज वा णिसीयाबेंतं वा तुयट्टावेतं वा साइज्जइ ॥सू० ६८॥ छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिक्षया अनन्तरहितायां पृथियां निषीदयेत् वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्थदते ॥सू०६८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'अणंतरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् तत्र अनन्तरहितायां शीतवातादिशस्त्रैरनुपहतायां सचित्तायाम् , पृथिव्याम् तथा चैतादृशसचित्तभूमौ यो भिक्षुभैथुनसेवनेच्छया अत्र 'स्त्रियं' इति गम्यते ततः स्त्रियमित्यर्थः 'णिसीयावेज्ज वा' निषीदयेद्वा उपवेशयेत् 'तुयद्यावेज्ज वा' त्वरवर्तयेद्वा-पार्श्वपरिवर्तनं कारयेत् स्वापयेद् वा इत्यर्थः तथा 'णिसीयावेतं वा' निषीदयन्तं वा उपवेशनं कारयन्तम् 'तुयटावेत वा' त्वग्वर्तयन्तं वा पार्श्वपरिवर्तनं कारयन्तम् 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू०६८॥ एवं पूर्वोक्तसूत्रक्रमेण यो भिक्षुर्मातृप्रामस्य मैथुनेच्छया स्त्रियं 'ससणिद्धाए पुढवीए' सस्निग्धायां-सचित्तजलेन ईषदार्द्रायां पृथिव्याम् ॥सू० ६९॥ 'ससरक्खाए पुढवीए' सरजस्कायां सचित्तरजोऽवगुण्ठितायां पृथिव्याम् ॥सू० ७०॥ 'मट्टियाकडाए पुढवीए' मृत्तिकाकृतायां सचित्त मृत्तिकानिर्मितायां पृथिव्याम् ॥सू० ७१॥ 'चित्तमंतार पुढवीए' चित्तवत्यां स्वभावतः-सचित्तायां खनिरूपायां पृथिव्याम् ॥सू० ७२॥ 'चित्तमंताए सिलाए' चित्तवत्यां सचित्तायां खनितः सद्यो निष्कासितायां शिलायाम् ॥सू० ७३॥ 'चित्तमंताए लेलुए' चित्तवति सचित्ते लेलुके-लोष्टरूपे पृथिवीखण्डे, एतेषु पूर्वप्रदर्शितेषु स्थानेषु स्त्रियम्, 'निसीयावेज्ज वा निषीदयेत् वा उपवेशयेत् 'तयट्टावेज्ज वा' त्वम्वर्तयेत् वा पार्श्वपरिवर्तनं कारयेत् शाययेत् वा तत्र शयनं कारयेद्वा, एवं कारयन्तमन्य वाऽनुमोदयेत् स प्रायश्चित्तभागी भवति ।। सू० ७४ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए कोलावासंसि वा दारुए वा जावपइट्ठिए, संअंडे सपाणे सबीए सहरिए सओसे सउदए सउत्तिंग-पणग-दगमट्टिय-मक्काडासंताणगंसि णिसीयावेज्ज वा तुयट्टावेज्ज वा णिसीयावेतं वा तुयट्टा वा साइज्जइ ॥ सू०७५ ॥ छाया-यो भिक्षुर्मातृप्रामस्थ मैथुनप्रतिज्ञा कोलावासे वा दारुके वा जीवप्रतिष्ठिते साण्डे सप्राणे सबीजे सहरिते सावश्याये सोदके सोत्तिङ्गपनकद कमृत्तिकामर्कटसन्तानके निषीदयेत् वा त्वग्वर्तयेद्वा निषीदयन्तं वा त्वग्वर्तयन्तं वा स्वदते ।सू० ७५।। For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy