SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७८ निशीथसूत्रे कस्मिंश्चिदिन्द्रियप्रदेशे वा 'उरसि वा' उरसि वा हृदयप्रदेशे 'उयरंसि वा' - उदरे वा कुक्षिप्रदेशे 'थणंसि' वा' स्तने वा उपलक्षणात् हस्तादिके वा 'गहाय' गृहीत्वा - स्त्रियोऽक्षादिकं गृहीत्वेत्यर्थः 'संचालेइ' संचालयति इतस्ततः चालयति 'संचालेंत वा साइज्जइ' संचालयन्तं वा स्वदते । यो हि भिक्षुमैथुनसेवनेच्छया स्त्रीणामक्षादिकं गृहीत्वा चालयति चालयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४ ॥ Acharya Shri Kailassagarsuri Gyanmandir - सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णमण्णस्स पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ । छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्योन्यस्य पादौ आमार्जयेद्वा प्रमाजयेद्वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ।। सू० १५ ।। चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया - मैथुनवाञ्छया 'अण्णमण्णस्स' अन्योन्यस्य परस्परम् स्त्री साघोः, साधुश्च स्त्रियाः 'पाए' पादौ चरणौ 'आमज्जेज्ज वा' आमार्जयेत् वा एकवारम् 'पमज्जेज्ज वा' प्रमार्जयेद्वा अनेकवारम् 'आमज्जतं वा' आमार्जयन्तं वा 'पमज्जंतं वा' प्रमार्जयन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । यो हि भिक्षुर्मैथुन सेवनेच्छया परस्परं चरणौ प्रमार्जयेत् प्रमार्जयन्तं वा वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १५ ॥ सूत्रम् - - एवं तइयउदेसे जो गमो सो णेयव्वो जाव जे भिक्खू माउग्गामस्स मेहुणवडियाए गामाणुगामं दुइज्जमाणे अण्णमण्णस्स सीसदुवारियं करेइ करेंतं वा साइज्जइ ॥ सू० १६-६७ ॥ छाया - एवं तृतीयोदेशके यो गमः स ज्ञातव्यो यावत् यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया ग्रामानुग्रामं द्रवन् अन्योन्यस्य शीर्षद्वारिकां करोति कुवन्तं वा स्वद इत्यादि ॥ सू० १६-६७ ॥ चूर्णी - ' एवं तइय' इत्यादि । एवं तइयउद्दे से गमो' एवं तृतीयोदेशके यो गमः आापकः सः अत्रापि मातृग्रामस्य मैथुनप्रतिज्ञया परस्परं पादयोरामर्जनादिसूत्रेषु 'णेयब्वो' ज्ञातव्यः । कियत्पर्यन्तमित्याह - 'जान' इत्यादि । 'जाव' यावत् यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया 'अण्णमण्णस्स पाए आमज्जेज्ज वा' इत्यादि सूत्रादारभ्य 'जे भिक्खू माउग्गामस्स मेहुणवडियाए गामाणुगामं दूइज्माणो अण्णमण्णस्स सोस दुबारियं करेइ' एतत्सूत्रपर्यन्तं स गमो ज्ञातव्य इति भावः । सू० १६ - ६७॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy