SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे प्रलम्बसूत्राणि वा सुवर्णनिर्मितानि लम्बायमानानि सूत्राणि तानि 'सुवण्णसुत्ताणि वा' सुवर्णसूत्राणि वा-सुवर्णस्य सूत्रविशेषलक्षणानि 'करेई' करोति, एतानि हारादिकानि मातृप्रामस्य मैथुनसेवनेच्छया स्वयं संपादयति परद्वारा कारयति वा तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदतेऽनुमोदते ॥ सू० ८॥ एवं पूर्वोक्तवस्तुविषये ‘धरेह' 'परिजइ' इति सूत्रद्वयमपि पूर्ववद् व्याख्येयम् ॥सू०९-१०॥ मूलम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए आईणाणि वा आईणपाउराणि वा कंवलाणि वा कंबलपाउराणि वा कोयराणि वा कोयरपाउराणि वा गोरमियाणि वा कालमियाणि वा णील-मियाणि वा सामाणिवा महासामाणि वा उट्टाणि वा उट्टलेस्साणि वा वग्याणि वा विवग्याणि वा पलवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा तिरीडपट्टाणि वा पतुलाणि वा पडलाणि वा चीणाणि वा अंसुयाणि वा कणगकंताणि वा कणगखचियाणि वा कणगचित्ताणि वा कणगविचित्ताणि वा आभरणाणि वा आभरणचित्ताणि वा आभरणविचित्ताणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ११ ॥ छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिशया आजिनानि वा आजिनप्रावरणानि वा कंबलान् वा कम्बलप्रावरणानि वा कोयराणिवा कोयरप्रावरणानि गौरमृगाणि वा कालमृगाणि वा नीलमृगाणि वा श्यामानि वा महाश्यामानि वा उष्ट्राणि वा उष्ट्रलेश्यानि वा व्याघ्राणि वा विव्याघ्राणि वा प्लवङ्गानि वा श्लक्ष्णानि वा श्लक्ष्णकल्यानि वा क्षौमाणि वा दुक्लानि वा तिरीटपट्टानि वा प्रतुलानि वा पटलानि वा चीनानि वा अंशुकानि वा कनककान्तानि वा कनकखचितानि वा कनकचित्राणि वा कनकविचित्राणि वा आभरणानि बा आभरणचित्राणि वा आभरणविचित्राणि वा करोति कुर्वन्तं वा स्वदते ॥ सू० ११॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छ्या 'आईणाणि वा' आजिनानि वा-मृगचर्मवस्त्राणि 'आईणपाउराणि वा' आजिनप्रावरणाणि वा, तत्राजिनं मृगचर्म तस्य प्रावरणाणिआच्छादनानि यः करोतीत्यग्रिमेण सम्बन्धः, 'कंबलाणि वा' कम्बलान् , तत्र कम्बला ऊर्णादिनिर्मितास्तान् 'कंबलपाउराणि वा' कम्बलप्रावरणानि वा, तत्र कम्बलस्य प्रावरणानि आच्छादनानि तानि यः करोति तथा 'कोयराणि वा' कोयराणि वा, तत्र कोयराणि कोयरदेशनिष्पन्ना वनविशेषाः For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy