SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिधान्यावचूरिः उ०७ सु०६-११ मातृग्रामप्रकरणम् १७५ त्रपुलोहान् वा त्रपु 'जसद' इति लोकप्रसिद्धम् तस्याकारविशेषान् 'सीसगलोहाणि वा' सीसकलोहान् वा, तत्र सीसकं धातुविशेषः 'सीसा' इति प्रसिद्धः तस्य आकारविशेषान् 'रुप्प - लोहाणि वा' रूप्यलोहान वा, तत्र रूप्यं रजतं, तस्य आकारविशेषान् 'सुवण्णलोहाणि वा सुवर्णलोहान् वा सुवर्णस्य आकारविशेषान् वा 'करेइ' करोति मातृग्रामस्य मैथुनसेक्मेच्छया लौहादिधातूनामाकारविशेषान् करोति तथा ' करेंतं वा साइज्जइ' लौहादीनामाकारविशेषान् कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति, लोहादिधातुभिराकारविशेषकरणे अग्न्यारम्भोऽनिवार्यो भवति, तथा तत्र धमनं फूत्करणमप्यावश्यकं तेन षट्कायोपमर्दनं भवति, ततः संयमविराधना, वनशरीरादिदहने आत्मविराधना चावश्यम्भाविनी ततो भिक्षुर्लोहादिधातूनामाकारविशेषं न स्वयं कुर्यात् नापि कुर्वन्तमन्यमनुमोदेत इति भावः ||सू० ५ || एवं 'घरेइ' 'परिभुंजइ' इति सूत्रद्वयमपि व्याख्येयम् ॥ सू० ६-७।। सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए हाराणि वा अद्धहाराणि वा गावलीं वा मुक्तावलीं वा कणगावलीं वा स्यणावलीं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलंबसुत्ताणि वा सुवण्णसुत्ताणि वा करेइ करेंतं वा साइज्जइ ||सू०८|| छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया हारान् वा अर्द्धहारान् वा बकावली घा मुक्तावलीं वा कनकावलीं वा रत्नावली वा कटकान् वा त्रुटिकानि वा केयूराणि वा कुंडलानि वा पट्टानि वा मुकुटानि वा प्रलम्बसूत्राणि वा सुवर्णसूत्राणि वा करोति कुर्वन्तं वा स्वदते ||८|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य ‘मेहुणवडियाए' मैथुनप्रतिज्ञया - मैथुनवाञ्छया 'हाराणि वा' हारान् वा तत्र हारा भ्रष्टादशसरिकाः, तान् 'अद्धहाराणि वा' अर्द्धहारान् वा, तत्रार्द्धहाराः नवसरिकाः, तान् 'एमावलीं ar' एकावली वा एकसरिका माला मित्यर्थः ' कणगावली वा' कनकावलीं वा कनकस्य सुवर्णस्यावली माला इति ताम् 'मुत्ताबलीं वा' मुक्तावलीं वा, तत्र मुक्ता गजादिमुक्ताः, तासाम् आवलीमाला ताम् 'रयणावळी बा' रत्नावलीं वा, तत्र रत्नानां कर्केतनादीनामावली माला ताम् 'कडगाणि वा' कटकान् वा, तत्र कटकाः 'कडा' इतिलोकप्रसिद्धाः, तान् कटकान् 'तुडियाणि वा त्रुटिकानि वा - हस्ताभरणविशेषान् वा 'केऊराणि वा' केयूराणि वा 'भुजबंध' इतिलोकप्रसिद्धानि 'कुडलाणि वा' कुण्डलानि वा, तत्र कुण्डलानि कर्णाभरणानि तानि 'पट्टाणिवा' पट्टानि वा, तत्र पट्टानि चतुरङ्गुलसुवर्णपट्टानि तानि ‘मउडाणि वा' मुकुटानि वा शिरोभूषणानि 'पलंवसुत्ताणि वा' For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy