________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिभाग्यावचूरिः उ. ६ सू. १४-१७
मातृग्राम प्रकरणम् १६५
अत्र शिष्यः पृच्छति - हे गुरो ! भगवता मैथुनसेवनेच्छया साधूनां पत्रलेखनं निषिद्धं तेना - कार्यार्थे पत्रलेखनं साधूनां कल्पते इति सिद्धम् । आचार्यः प्राह - हे शिष्य ! साधूनां कुत्रापि पन्नादिलेखनं न कल्पते शास्त्रे तस्य निषेधात् । पुनः शिष्यः पृच्छति - हे गुरो ! शास्त्रे तु मैथुनार्थमेव लेखनं प्रतिषिद्धं दृश्यते तदा कथमेवं भवान् कुत्रापि पत्रलेखनं निषेधयति ? | आचार्य प्राहशिष्य ! शास्त्रे मैथुनार्थ यो निषेधः कृतः तस्योपलक्षणत्वात् सामान्यस्यापि निषेधः सूचितः, साधूनां नवकोटेः प्रत्याख्यानात् पत्रादिलिखने नवकोटिविराधनस्यावश्यम्भावात् ॥सू० १३ ॥
सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिट्ठंवा सोयंतं वा भल्लायएण उप्पाएइ उप्पाएंतं वा साइज्जइ ॥ सू० १४ ॥
छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा भल्लातकेन उत्पादयति उत्पादयन्तं वा स्वदते ॥सू० १४ ||
1
चूर्णी - 'जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउरगामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'पोसतं वा' पोषान्तं वा सेवनाद यः पुष्यते पुष्टो भवति स पोषः, पोषयति मैथुनार्थिनं यः स पोषः मृगीपदं योनिरित्यर्थः, तस्य अन्तम् प्रान्तभागम् 'पिट्ठतं वा' पृष्ठान्तं वा पृष्ठस्य अपानद्वारस्य गुदाया इत्यर्थः अन्तम् भागं 'सोयंतं वा ' खोतोऽन्तं वा तत्र स्रोतः - छिद्र विशेषः स्त्रिया नाभिकर्णादिकं मैथुनेच्छया 'भल्लायएण' भल्लातकेनभल्लातकेति औषधिविशेषः तेन औषधिविशेषेण - औषधिविशेषलेपेन सौन्दर्य सौगन्ध्यादिकं 'उप्पाए' उत्पादयति - करोति ' उपाएंतं वा साइज्जइ' उत्पादयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ||सू० १४ ॥
सूत्रम् - जे भिक्खू माउग्गा मस्स मेहुणवडियाए पोसंतं वा पिटतं वा सोयंतं वा भल्लायरण उप्पाएता सीओदगवियडेण वा उसिणोदगवि. बडेण वा उच्छोल्लेज्ज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा साइ ज्जइ ॥ सू० १५ ॥
छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं at भक्लातकेन उत्पाद शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेद्वा प्रधा वेद्वा उच्छोलयन्तं वा प्रधावन्तं वा स्वदते ॥ सू० १५ ।।
चूर्णी- 'जे भिक्खू माउग्गमस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनबाछया 'पोसंतं वा' पोषान्तं वा 'पिहृतं वा' पृष्ठान्तं वा 'सोयंत बा' स्रोतोऽन्तं वा पूर्वनिर्दिष्टस्वरूपम् 'भल्लायरण उप्पाए वा '
For Private and Personal Use Only