________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्तिभाष्यावचूरिः उ० ५ ० ६१-६४
औहे शिवयादिवस तिवासनिषेधः १५१
सूत्रम् — एवं अण्णयराणि वा तहप्पगाराणि वा अणुदिन्नाई सद्दाई उदीरेs उदीतें वा साइज्जइ ॥ सू० ६१ ॥
छाया - पवमन्यतरान् वा तथाप्रकारान् वा अनुदीर्णान् शब्दान् उदीरयति उदीरयन्तं वा स्वदते ॥ सू० ६१ ॥
,
चूर्णी - 'एवं अण्णयराणि' इत्यादि । संप्रति प्रकृतप्रकरणमुपसंहरन्नाह - 'एव'मित्यादि । 'एवं' एवं यथोक्तप्रकारेण 'अण्णयराणि वा अन्यतरान् वा वीणावादनप्रकारेण अन्यानपि शब्दान् पशुपक्षिसर्पादीनां शब्दान् 'तहप्पगाराणि वा' तथाप्रकारान् वा तं प्रकारमापन्ना इति तथाप्रकाराः तान् शब्दान् वादित्रशब्द समानानन्यानपि 'अणुदिन्नाई' अनुदीर्णान् 'सदाई' शब्दान् 'उदीरेइ' उदीरयति उच्चारयति, अर्थात् यत् मोहनीयं कर्म उपशान्तं तत् पुनरनेकप्रकारकशब्दोच्चारणेन उदीरयति, तथा 'उदीरेंतं वा साइज ' उदीरयन्तं वा स्वदते । यो हि श्रमणोऽनेकप्रकारकान् शब्दानुदीरयति तं योऽनुमोदते स प्रायश्चितभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥ सू० ६१ ॥
सूत्रम् — जे भिक्खू उद्देसियं सेज्जं अणुप्पविसह अणुप्पविसंत वा साइज्जइ || सू० ६२ ॥
छाया - यो भिक्षुरौद्देशिकीं शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदृते ॥ सू० ६२।
चूर्णी - 'जे भिक्खू उद्देसियं' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'उद्देसियं सेज्जं' मौदेशिक शय्याम् एकं श्रमणं श्रमण वा उद्दिश्य कृता इति औशिकी, सा चासौ शय्या वसतिः स्थानकमित्यर्थः तामौदेशिकीं शय्याम् ' अणुष्पविसइ' अनुप्रविशति साधुमुद्दिश्य कृतोपाश्रये उपागच्छति उपाश्रये निवासकरणार्थे यः श्रमणः प्रवेशं करोति, तथा 'अणुवितं वा साइज्जइ' अनुप्रविशन्तं वा स्वदते । यः श्रमण औदेशिक स्थाके उपागच्छति तं योऽन्यः श्रमणोऽनुमोदते स प्रायश्चितभागी भवति तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० ६२ ॥
सूत्रम् — जे भिक्खू सपाहुडियं सेज्जं अणुप्पविसइ अणुष्पक्सिंतं वा साइज्जइ ॥ सू० ६३ ॥
छाया -यो भिक्षुः सप्राभृतिकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ६३
For Private and Personal Use Only