________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्र
निशीथसूत्रे
1
चूर्णी - 'जे भिक्खू विचित्ताई' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः विचित्ताई विचित्रान् नानावर्णोपेतान् 'दारुदंडाणि' दारुदण्डान् 'वेणुदंडाणि वा' वंशदण्डान् 'वेचदं-.. डापि का' वेत्रदण्डान् वा 'करेड़' करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते । यः श्रमणः नानावर्णोपेतान् दारुदण्डादिकान् स्वयं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।। सू० ३२ ॥ एवं 'धरेइ' ||सू० ३३| 'परि-'झुंज' व्याख्यानं पूर्ववत् ॥सू० ३४ ॥
सूत्रम् — जे भिक्खू नवणिवेसंसि गामंसि वा जाव संनिवेसंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाई पडि. ग्गा साइज्जइ ॥ सू० ३५ ॥
छाया -यो भिक्षुर्नव निवेशे ग्रामे वा यावत् संनिवेशे वा अनुप्रविश्याशनं वा पानं वा खाद्य वा स्वाद्यं वा प्रतिगृह्णाति प्रतिगृद्धतं वा स्वते | सु० ३५॥
'चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'नवणिवेसंसि वा' नवनिवेशे वा नवतया निवेशः स्थापनं यस्य से नवनिवेश: - तस्मिन् प्रथमतया निवासिते, ब्राहशे 'सामंसि वा' ग्रामे वा 'जाव संनिवेति वा' यावत् संनिवेशे वा अत्रयावत्-पदेन नगरखेटकर्बटादीनां संग्रहो भवति, एतेषु नवनिवेशितेषु प्रामादिषु 'अनुष्पविसित्ता' अनुप्रविश्य प्रवेशं कृत्वा, यो हि भिक्षुर्नवनिर्मितग्रामादिषु मध्ये प्रवेशं कृत्वेत्यर्थः 'असणं वा ' अनमाहारादिजातं वा 'पाणं वा पानं तण्डुलधावनादिकमचित्तजलम् : 'खाइमं वा' खायं - द्राक्षाखण्डादिकभू 'साइमं बा' स्वाद्यं लवङ्गादिकम् 'पडिग्गा हेइ' प्रतिगृह्णाति - ग्रहणं करोति 'पडि - ग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते । यो हि श्रमणो नवनिर्मितग्रामादावनुप्रविश्याहा - देर्ग्रहणां करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात् कारणात् श्रमणो नवनिर्मितप्रामादिषु प्रविश्य न चतुर्विधाहारादिकं गृह्णीयात् न बा. गृह्णन्तमनु मोदयेदिति ।
अर्थं भावः - नवनिर्मितप्रामादौ प्रविशन्तं श्रमणं दृष्ट्वा भद्रका अनिवस्तिकामा अपि एवं विचारयन्ति - अहो भाग्यवशात् साधुः समागतो महन्मङ्गलं जातम्, स्थिरीभूतं च । एवं जानन्ति कृष्ठिं च- अहो साधुदर्शनं धन्यम्, साधुमात्र प्रथममेव मिक्षाग्रहणं कृतम्, तेन कारणेन ग्रामोपि स्थिरो भविष्यति, वयमपि चात्र सुस्थिराः सन्तो वसिष्यामः इति कृत्वा ते तत्रागत्य निवसन्ति तेनारम्भप्रवृत्तिः । ततस्ते भद्रकाः तेषां साधूनामन्येषां वा निमित्तमुद्रमादिदोषदुष्टमाहारादिकं कुर्युः । यश्च अभद्रकः स पुनर्नवनिर्मितग्रामादौ आवासं कर्तुकामेोपि प्रथमतः साधुं दृष्ट्वा
For Private and Personal Use Only