________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूर्णि० उ०५ सू०२८-३५ सचित्तादिदारुदण्डकादेर्नवनिवेशितमामादौभिक्षायाश्चनि० १४७.
छाया-'यो भिक्षुः सचित्तान् दारुदंडान् वा वेणुदंडान् वा वेत्रदंडान् वा करोति कुर्वन्तं वा स्वदते ॥सू० २६॥
चूर्णी-'जे भिक्खू सचित्ताई' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचिताई सचित्तान्-सजीवान् 'दारुदंडाणि वा' दारुदण्डान् वा शिंशपादिवृक्षसंपादितदण्डान् इत्यर्थः 'वेणदंडाणि वा' वेणुदण्डान् वा, तत्र वेणुवंशस्तत्सम्बन्धिनो दण्डान् ‘वेत्तदंडाणि वा' वेत्रदण्डान् वा. तत्र वेत्रम् लताविशेषलक्षणं 'वेत' 'नेतर' इति लोकप्रसिद्धम् , तस्य वेत्रस्य सचित्तदण्डान् वेत्यर्थः 'करेइ' करोति सचित्तदारुदण्डादीन् स्वसंपादयतीत्यर्थः तथा 'करतं वा साइज्जई' सचित्तदारुदण्डान् कुर्वन्तं संपादयन्तमन्यमनुमोदते । यो हि भिक्षुः श्रमणः सचित्तदारुवंशादिदण्डं स्वयं करोति कुर्वन्तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गाऽनवस्थादयो दोषा भवन्तीति ॥ सू० २६॥ एवं 'धरेई' धरति-हस्ते धारयति ।।सू० २७॥ 'परिभुजई' परिभुः अन्यस्मिन् कार्ये परिभोगं करोति, शेषं पूर्ववत् ॥२० २८॥
मुत्रम्-जे भिक्खू चित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्तदंडाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० २९ ॥
. छाया-यो भिक्ष: चित्रान् दारुदण्डान् वा घेणुदण्डान् वा वेत्रदण्डान् वा करोति कुर्वन्तं वा स्वदते ॥सू० २९॥
चूर्णी-'जे भिक्खू चिताई' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'चिचाई' चित्रान् वर्णयुक्तान् 'दारुदंडाणि वा' दारुदण्डान् , तत्र चित्रः एकवर्णेन नोलपीतादिना वा एकेन वर्णेन अतिशयेनोज्ज्वलः, तथा च एकवर्णेन येन केनापि अतिशयेन दारुदण्डान् उज्ज्वलान् 'करोति' इत्यग्रिमेण सम्बन्धः, तथा 'वेणुदंडाणि वा' वेणुदण्डान् वा तत्र वेणुवंशः, तस्य दण्डान् , तान् वर्णेनोउज्वलान् करोति, तथा 'वेत्तदण्डाणि वा' बेत्रदण्डान् वा एकवर्णेनातिशयेनोज्ज्वलान् 'करेई'. करोति स्वयं संपादयति, तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा संपादयन्तमन्यं श्रमणं स्वदतेऽनुमोदते । यो भिक्षुचित्रं दारुदण्डं वेणुदण्डं वेत्रदण्डं करोति कुर्वन्तं वा अनुमोदते स प्रायश्छितभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।मु०२९॥ एवं 'घरेइ' सू० ३०॥ 'परिभंजई' सू०३१॥ व्याख्यानं पूर्ववत् ॥
सूत्रम्-जे भिक्खू विचित्ताई दारुदंडाणि वा वेणुदंडाणि वा वेत्त. दंडाणि वा करेइ करेंतं वा साइज्जइ ।। सू० ३२ ॥
छाया-यो भिक्षुः विचित्रान् दारुदण्डान् वा वेणुदण्डान् वा वेत्रदण्डान् वा करोति कुर्वन्तं वा स्वदते ॥सू० ३२॥
For Private and Personal Use Only