SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૦ निशीथसूत्रे सूत्रम् — जे भिक्खु अप्पणो संघाडियं अण्णउत्थिएण वा गारस्थि एण वा सागारिएण वा सिव्वावेइ वा सिव्वावेंतं वा साइज्जइ ॥ सू० १२॥ Acharya Shri Kailassagarsuri Gyanmandir छाया - यो भिक्षुरात्मनः संघाटिकाम् अन्ययूथिकेन वा गार्हस्थिकेन वा सागारिकेण वा सीवर्यात सीवयन्तं वा स्वदते ॥ सू० १२|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अप्पणो संघाडियं आत्मनः स्वस्य संघाटिकां प्रावरणवस्त्रं 'चादर' 'पछेवडी' इति भाषाप्रसिद्धाम् 'अण्णउत्थि एण वा' अन्ययुथिकेन वा परतीर्थिकेन 'गारत्थिएण वा' गार्हस्थिकेन वा येन केनचित् पूर्वसंस्तुतादिना तदन्येन वा गृहस्थेन 'सागारिएण वा' सागारिकेण वा तत्र सागारिकः श्रावक इत्यर्थः तेन 'सिव्वावेइ' सीवयति - परद्वारा स्वकीयप्रावरणवस्त्रस्य संधानं कारयतीत्यर्थः तथा 'सिच्वावेंतं वा साइज्जइ' सीवयन्तं वा स्वदते । अत्राह भाष्यकारः -- भाष्यम् -- परतित्थि गिहत्थे हिं संघाडीए य सीवणं । कारे समणो जो उ, आणाभंगाइ पावइ || छाया - परतीर्थिगृहस्थैः, संघाटयाश्च सीवनम् । कारयति श्रमणो यस्तु, आशाभङ्गादि प्राप्नोति ॥ अवचूरि : -- 'परतित्थि० ' इत्यादि । यस्तु श्रमणः साधुः परतीर्थिकगृहस्थैः, उपलक्षणात् श्रमणीभिर्वा संघाटचा : - 'चादर' 'पछेवडी' इति भाषाप्रसिद्धायाः सीवनम्, उपलक्षणत्वात् आहाराद्यानयनवैयावृत्यादिकं वा क्वापि कस्मिन्नपि काले कारणेऽकारणे वा कारयेत् तदा आज्ञाभङ्गादिदोषान् प्राप्नोति । यस्मिन् संप्रदाये गच्छे वा संयतीभिः उपर्युक्तं कार्यं कारयति स गच्छ लोकानां पुरतो नपुंसक इव शास्त्रविदां परिषदि सर्वथैव अनादृतो भवतीति भावः || सू०१२ ॥ सूत्रम् — जे भिक्खू अप्पणा संघाडीए दीहसुत्ताई करेइ करेंतं वा साइज्जइ || सू० १३ || छाया - यो भिक्षुरात्मनः संघाटया दीर्घसूत्राणि करोति कुर्वन्तं वा स्वदते ॥ सू०१३ || चूर्णी - 'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः 'अपणो' आत्मनः स्वस्य ‘संघाडीए' संघाट्याः प्रावरणवस्त्रस्य 'चादर' 'पछेवडी' इति लोकप्रसिद्धायाः 'दीहसुत्ताई करे ' दीर्घसूत्राणि प्रावरणवस्त्रान्तभागस्थितानि दशिकारूपाणि लघुसूत्राणि तानि दीर्घसूत्राणि कार्पासिकसूत्रेषु ऊर्णासूत्राणां ऊर्णासूत्रेषु क्षौभिकादिसूत्राणां बन्धनं दत्त्वा दीर्घाणि चतुरङ्गुलादधिकामि विस्तृतानि सूत्राणि शोभा करोति - संपादयति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्वित्तभागी भवति तथा तस्याज्ञामङ्गादिका दोषा अपि भवन्तीति ॥सू० १३ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy