________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
WM
निशीथस्चे स भिक्षुराज्ञाभङ्गादिकान् दोषान् प्राप्नोति । तथा सचित्तवृक्षमूले स्थितस्य भिक्षोर्हस्तपादादिना वृक्षस्य संघट्टनं भवेत् तदा तस्य सस्थावरजीवादिविराधनं भवति तेन संयमविराधना, तथा छाया तत्पत्रादिभक्षणार्थ शरीरसंघर्षणार्थ वा समागततिर्यगादिभ्य उपघातोपि भवति तेनात्मविराधना भवति तस्मात् सचित्तवृक्षमूले स्थित्वा साधुना कायोत्सर्गादिकं न कर्तव्यमिति ।।सू०२॥
सूत्रम्--जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा असणं वा पाणं वा खाइमं वा साइमं वा आहारेइ आहारतं वा साइज्जइ ॥ सू०३॥
छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा अशनं वा पानं वा खाद्य वा स्वाद्य वा आहरति आहरन्तं वा स्वदते ॥सू० ३॥
चूर्णी-'जे भिक्खू' इत्यादि । एवं सचित्तवृक्षमूले स्थित्वाऽशनादेराहारोऽपि न कर्त्तव्य इति ॥सू०३॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा उच्चारपासवणं परिहुवेइ परिहवेंतं वा साइज्जइ ॥ सू० ४ ॥
छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठा. पयन्तं वा स्वदते ॥सू० ४॥
___ चूर्णी-'जे भिक्खू, इत्यादि । एवं सचित्तवृक्षमूले स्थित्वा उच्चारप्रस्रवणादिपरिष्ठापनमपि न कर्त्तव्यम् ।सू०४॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं करेइ करें वा साइज्जइ ॥ सू ५ ॥
छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायं करोति कुर्वन्त वा स्वदते। चूर्णी- 'जे भिक्खू' इत्यादि । अस्मिन् सूत्रे स्वाध्यायनिषेधः प्रतिपादितः ॥सू०५॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं उदिसइ उद्दिसंतं वा साइज्जइ ॥ सू०६॥
छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्वाध्यायमुद्दिशति उद्दिशन्तं वा स्वदते ॥ सू ॥ __चूर्णी-'जे भिक्खू' इत्यादि । अस्मिन् सूत्रे सचित्तवृक्षमूले सूत्रार्थतदुभयरूपस्वाध्यायस्य पाठनं निषिद्धम् ॥सू० ६॥
सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा सज्झायं समुदिसइ समुदिसंत वा साइज्जइ ॥ सू०७॥
For Private and Personal Use Only