SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ निशीथसूत्र नावापूराणां नावाकारतानामे कहस्ततलानां 'पसलो' इति प्रसिद्धानां 'आयमइ' आचमति शौचै करोतीत्यर्थः, प्रथमं तु यदि एकेनैव नावारेण निर्लेप्तुं शक्यते तदा एकेनैव नावापूरेण निलेपयेत् न तु तदधिकेन, किन्तु कारणवशात्तदधिकेन द्वितीयेन तृतीयेन वा नावापुरेणापि निर्ले. पयेत् । ततोऽधिकेन चतुर्थपञ्चमादिना नावारेणे यद्याचमति । 'आयमंतं वा साइज्जई' नावापरत्रयान् अधिकेन नावापूरेण आचमन्तं शौच कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४३॥ सूत्रम्-जे भिक्खू अपारिहारिए णं पारिहारियं वएज्जा-एहि अज्जो ! तुमं च अहं च एगओ असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता, तओं पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामी वा, जो तं एवं वयइ, वयंत वा साइज्जइ ॥सू० १४४॥ छाया - यो भिक्षुः अपारिहारिकः खलु पारिहारिकं वदेत् “पहि आर्य ! त्वं च अहं च ऐकतोऽशनं वा पान वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य ततः पश्चात् प्रत्येक प्रत्येक भोक्ष्यावो पास्यावा वा" यस्तमेवं वदति वदन्तं वा स्वदते ॥ सू० १४४।। - चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अपारिहारिए ण' अपारिहारिकः खलु, तत्र पारिहारिकः परिहारनामकप्रायश्चित्तरहितो विशुद्धः शुद्धाचारो वा साधुरित्यर्थः, 'पारिहारिय' पारिहारिक-प्राप्तपरिहारनामकप्रायश्चित्तं मासिकादियावत्पाण्मासिकान्तं परिहारनामकप्रायश्चित्ततपो वेहमानं पारिहारिकम् 'वएज्जा' वदेत्-कथयेत्, किं वदेत् ! स्याह-एहि अज्जो' ! इत्यादि । 'एहि अज्जो' एहि आर्य ! हे आर्य एहि अत्रागच्छ 'तुमं चं भई चे' त्वं चाहं च 'एगी' एकतः-एकत्र मिलित्वा 'असणं वा' अशनम् वा 'पाणं वा पानं वा 'खाइम' खार्य वा 'साइमं वा' स्वाद्य वा 'पडिग्गाहेत्ता' परिगृह्य एतेषामशनादीनां मिलित्वैव ग्रहणं कृत्वा 'तओ पच्छा' ततः पश्चात् ग्रहणादनन्तरम् 'पत्तेयं पत्तेय' प्रत्येक प्रत्येकं-भिन्नमिन्नस्थाने उपविश्य 'भोक्खामो वा पाहामो वा' भोक्यावः आहारं करिष्यावः, पास्यावः-जलादिपानं करिष्यावः, 'जो तं एवं वयह' यो भिक्षुरेवंप्रकारेण तं पारिहारिकं प्रति वदति-कथयति 'वयंतं वा साइज्जई' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।। स्०१४४॥ संप्रति उद्देशकोपसंहारमाह-'तं सेवमाणे' इन्यादि । सूत्रम्-तं सेवमाणे आवज्जइ मासियं परिहारट्ठाणं उग्घाइयं ।१४५/ ॥ निसीहे चत्यो उद्देसो समत्तो ॥४॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy