SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૪ निशीथसूत्रे यस्मादेते दोषाः कलहकारिणां भवन्ति तस्मात् कारणात् व्यपशमितं पुरातनं कलहं नोत्पादयेत् । कदाचित् उत्पन्नमपि मिथ्यादुष्कृतिदानादिना प्रशमयेत्, संयमाराधने कालं नयेत् ॥सू०२८ ॥ सूत्रम् -- जे भिक्खू मुहं विष्फालिय विष्फालिय हसइ हसंत वा साइज्जइ ॥ सू० २९ ॥ छाया -यो भिक्षुर्मुखं विस्फार्य्य विस्फार्थ्य हसति इसन्तं वा स्वदते ॥ सू०२९ ॥ चूण - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'मुहं' मुखम् 'विष्फालियविफालिय' विस्फार्य - विस्फार्य 'हसइ' हसति, हास्यं च नोमोहनीय कर्मोदयाद्भवति । तच्चतुर्विधम्- नग्नादिकं दृष्ट्वा हसति १, अथवा - विकृतं वाक्यं समुच्चार्य २, काक - सरटादीनामाख्यानकं श्रुत्वा ३, मोहजनकं वाऽन्यस्य हासोत्पादकं सविकारं वाक्यं श्रावं श्रावं महता - उत्कलिकाशब्देन कहकहं हसति ४ । 'हतं वा साइज्जइ' हसन्तं वाऽन्यं श्रमणं स्वदतेऽनुमोदते स प्रायश्चित्ती भवति, तस्याज्ञाभङ्गादिका दोषा भवन्ति । Acharya Shri Kailassagarsuri Gyanmandir एवं - यो यति सति तस्य पूर्वकाले यः शूलादिको रोगोऽभूत् स इदानीं च शान्तः, परन्तु - अतिहसनेन पुनरपि स रोगः प्रादुर्भवति । एवं नवीनोऽपि शूलादिरोगोऽतिहास्येन समुत्पद्यते । एवं कर्णरोगोऽपि भवति, मुखमपि विकृतं विष्फारितं वा भवति । एवं कदाचित् एकत्राऽनेके तापसा आसन्, तत्रैकेन तापसेनाऽदेशकाले केशादीनां मुण्डनं कृतम्, तद् दृष्ट्वा सर्वेऽप्यन्ये हसितुमारेभिरे, न विरामं नीतवन्तः, तेन च तेषां रोगोदयान्मरणं सञ्जातमिति श्रूयते । एवं यं हसति तस्य मनसि शोको भवति 'अहमुपहसितः' ततश्च तेषु शत्रुभावो वर्द्धते, शरीरे हानिग्लोनिश्च भवति । यस्मादेते दोषा भवन्ति तस्मात्कारणात् मुखं व्यादाय नोपहासः करणीयः किन्तु - शमभावेन संयमा राधनं कर्त्तव्यमिति ॥ सू० २९ ॥ सूत्रम् - जे भिक्खू पासत्थस्स संघाडयं देइ देतं वा साइज्ज | सू० ३०॥ छाया - यो भिक्षुः पार्श्वस्थाय संघाटकं ददाति ददतं वा स्वदते || सू० ३०॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पासत्थस्स' पार्श्वस्थाय, तत्रयो ज्ञान - दर्शन - चारित्र- तपसां पार्श्वे - समीपे तिष्ठति न तु तेषामाराघको भवति स पार्श्वस्थः, तस्मै ‘संघाडयं' संघाटकं–स्वपरशिष्यरूप साहाय्यम् ' देइ' ददाति, तथा 'देतं वा साइ-ज्जइ' पार्श्वस्थाय संघाटकं ददतमन्यं मश्रमणं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति ॥ सू० ३०|| For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy