SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाष्यावचूरिः उ० ४ सू० २९-३० हसनपार्श्वस्थादिसंघाटकादानप्रदाननिषेधः १२३ ___अत्र सूत्रे-भावाधिकरणेन प्रथमभङ्गेनाऽधिकारः, तत्र चैते दोषाः-तापो भवति-अहं तेनाऽतीव तम्ये, एवं भवति तापः साधिकरणस्य । एवं-भेदः-अयशो भवति साधिकरणस्य । तथा-ज्ञानदर्शन-चारित्र-तपसां हासो भवति । तथा-साधिकरणस्य पुरुषस्य संसारोऽपि वर्द्धते, इत्यादयोऽनेके दोषा भवन्ति । तस्मात् कारणात् श्रमणैः श्रमणीभिर्वाऽधिकरणं नोत्पादनीयम् , किन्तु-समभावमास्थाय चारित्राराधनं कर्त्तव्यमिति तीर्थकराणामाज्ञा शास्त्राणां मर्यादा चेति ।। सू० २७॥ सूत्रम्-जे भिक्खू पोराणाई अहिगरणाई खामिय-विओसमियाई पुणो उदीरेइ उदी रेत वा साइज्जइ ॥ सू० २८ छाया-यो भिक्षुः पौराणानि अधिकरणानि क्षामितव्युपशमितानि पुनः उदीरयति उदीरयन्त वा स्वदते ॥सू० २८॥ ___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पोराणाई' पौराणानि पूर्वकालिकानि-पूर्वकालभवानि व्यतीतानीत्यर्थः 'अहिगरणाई' अधिकरणानि-कलहान् । 'खामियविमओसमियाई क्षामितव्युपशमितानि, क्षामितानि वन्दनादिना, अतो व्युपशमितानि शान्तीकृतानि तानि यदि 'पुणो उदीरेइ' पुनरुदीरयति उत्पादयति, तथा 'उदीरंतं वा साइज्जई' उदीरयन्तं समुत्पादयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तस्याऽऽज्ञाभङ्गादयो दोषा भवन्ति ॥सू०२८॥ अत्राह भाष्यकार:भाष्यम्-अहिंगरणं पुठवर्ग, उप्पाएइ जई जइ । आणाभंगाइए दोसे, पायच्छित्तं च पावइ ॥ छाया-अधिकरणं पूर्वगमुत्पादयति यतिर्यदि । आशाभङ्गादिकान् दोषान् प्रायश्चित्तं च प्राप्नोति ॥ अवचरिः—'अहिगरणं' इत्यादि । यः कश्चिद्भिक्षुः पूर्वगं--पूर्व गतं क्षान्त-विशोधितम् . मिथ्यादुष्कृतादिनोपशमितमधिकरणं क्लेशरूपं पुनरुत्पादयति । यत्र यदा कदाचित् द्वयोः श्रमणयोः कलहो जातस्ततस्तं मिथ्यादुष्कृतदानादिना शान्तीभूतमपि पुनरेकः कथयति-"त्वं पूर्व ममापमानं कृतवानसि" एवंप्रकारेण परस्परं वार्तालापप्रवाहे पूर्वजातमपि विस्मृतं नवीनं करोति स आज्ञाभङ्गादीन् दोषान् प्रायश्चित्तं च प्राप्नोति । एवं कलहकरणेन मनसि तापो भवति लोकेऽयशो भवति । एवं--ज्ञान--दर्शन--चारित्र-तपसां परिहानिर्भवति, स्वाध्यायादिकालस्य कलहेनैव परिसमाप्तेः । तथा साधुभिः सह प्रद्वेषोऽपि जायते । एवं-कलहकरणात् संसारोऽपि, परिवर्द्धते, कलहेऽवश्यं कषायोदयात् , कषायाणां च संसारकारणत्वात् । For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy