SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . ८ निशीथस्त्रे भगन्दरं-लिङ्गगुदयोर्मध्ये नाडीस्थं व्रणम् , यदि 'अन्नयरेण' अन्यतरेण-येन केनाऽपि 'तिक्खेणं' तीक्ष्णेन, 'सत्यजाएणं' शस्त्रजातेन 'आच्छिदित्ता' आच्छिद्य-ईषदेकवारं वा छेदनं कृत्वा 'विछिदित्ता' विच्छिद्य-अधिकमनेकवारं वा छेदनं कृत्वा ततो व्रणप्रदेशात् 'पूयं वा सोणियं वा' पूर्व वा शोणितं वा-पक्वरुधिरं पूयः, अपक्वं रुधिरं शोणितम् 'णीहरेज वा' निहरेत्निष्कासयेत् 'विसो हेज्ज वा' विशोधयेत्-व्रणगतप्यादिकस्य शोधनं कुर्यात् । तथा 'णीहरतं वा' निर्हरन्तं व्रणप्रदेशात् पूयादिकं निष्कासयन्तम्, 'विसोहेंतं वा' विशोधयन्तं प्यशोणितादेः शुद्धिं कुर्वन्तम् 'साइज्जई' स्वदते, यो भिक्षुः स्वशरीरस्थितव्रणादिविशेष छित्त्वा ततो गलन्तं पूयशोणितादिकं निष्कासयति विशोधयति वा, योऽनुमोदते वा स प्रायश्चित्तभाग् भवति, भवन्ति च तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादोषाः, तस्मात् कारणात् शरीरस्थमपि व्रणविशेषं छित्वा छेदयित्वा वा ततो निर्गलन्तं प्यशोणितादिकं न निर्हरेत् , न वा विशोधयेत् , किन्तु ततो जायमानां वेदनां साम्यभावेन सहेतेति ।। सू० ३५॥ अत्राह भाष्यकारःभाष्यम् - जम्मतरोवज्जियमत्यु दुखं, मुहं समागच्छउ वा जहिच्छं । . इत्थं समाहित्थमणो मुणंतो, जो सम्मभावेण सहे स साहू ॥ छाया-जन्मान्तरोपार्जितमस्तु दुःखं सुखं समागच्छतु वा यथेच्छम् । इत्थं समाधिस्थमना जानन् यः साम्यभावेन सहेत स साधुः॥ अवचूरिः- 'जम्मंतरोवज्जिय' इत्यादि । जन्मान्तरे परभवे यद् उपार्जितं दुःखमस्तु सुखं वा यथेच्छं समागच्छतु नात्र मम काऽपि चिन्ता, इस्थम् अनेन प्रकारेण समाधिस्थमनाः स्वकृतकर्मफलं जानन् सन् यो मुनिः दुःखं सुखं वा साम्यभावेन सहेत स साधुः कथ्यते ॥ अयं भावः-समाधौ वर्तमानो भिक्षुः स्वात्मानं भूषयन्तं छेदयन्तं वा न जानीते तत्र तस्य किं महत्त्वम् , यत् सुखं दुःखं वा सहते है। इत्थमोषधिप्रयोगेण भिषम्भिरचैतन्यावस्थामानीतस्तावत्सुखं दुःखं वा न जानाति तत्रापि तस्य सुखदुःखसहने न महत्त्वम् । महत्त्वं तु-यश्चैतन्यदशायां स्थितो न समाधौ-न वा मूर्छितावस्थायां तत्र प्रतिक्षणं स्वशरीरे व्रणादिजनितमसह्यमपि दुःखं जन्मान्तरकर्मोपार्जितमिति मत्वा समभावेन सहते तस्य तदेव महत्त्वम् , उक्तं च विषगणपरिवेगाद्वा समाधेः प्रयोगाद, यदि सहनसमर्थः स्वाङ्गदुःखस्य भोगे । नहि भवति स सोडा नास्य तत्तन्महत्त्वं,परिभजति समस्थस्तन्महत्त्वं महत्त्वम् ॥१॥ सुखं तु सोऽपि जनः सानन्दो भूत्वा हसन् सहते किन्तु-धीरस्तत्रानन्दमजानानस्तीथंकरोकभावनां भावयन् दिवसं वा रात्रिं वा व्यतिक्रामतीति ॥ ३५ ॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy