________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत्राह आम्यकारः -
भाष्यम्-वर्ण च दुबिहं जेज्जं, साभावियमथेयरं । साभावियं देहजायं, सत्थाइजमथेयरं ॥
छाया - प्रणं व द्विविधं ज्ञेयं स्वाभाविकमथेतरत् । स्वाभाविकं जातं शस्त्रादिजमथेतरत् ॥
Acharya Shri Kailassagarsuri Gyanmandir
निशीथसूत्रे
अवचूरिः - 'वणं च' इत्यादि । शरीरसंबन्धि बणं द्विविधं - द्विप्रकारकं भवति । तत्रैकं स्वाभाविक - बालकारणरहितं सत्-जायमानम् । अथेतरत् इतोऽन्यत् द्वितीयम् इति ज्ञेयम् । तत्रस्वावाविकं देहस्थितदोषतो जायमानम् आन्तरिकदोषमूलकमित्यर्थः, कुष्ठ - (कोढ) - दद्रु - (दाद) पामा - ( खुजली ) - इति लोकप्रसिद्धं गण्डमालादिकं च । अथेतरत् - इतो द्वितीयं शस्त्रादिजातमा - गन्तुकम् यादिपदात्-खड्ग- कण्डक - स्थाणु-प्रभृतिवस्तुजातसंबाधाजनितानां संग्रहः । एतेषां वणाभां मध्यादन्यतममपि वर्ण एकवारमनेकवारं वाऽऽमार्जनादिकं करोति स प्रायश्चित्तभागू भवति, तस्याज्ञाभङ्गादयो दोषा भवन्ति । अत्र गुरोरुपदेशो यथा
"न रोदनं हन्त ! पितर्न मातरालप्य ताडयः शिरसः प्रदेशः । बसन्नचितेन तदीयतीव्र संवेदनायाः सहनं क्रियेत" ॥१॥ प्रसन्नमनसा रोगसंजाततीव्रसंवेदनायाः सहनमेव कार्यम्, न तु हा पितः ! हा मातः ! इति मुहुर्मुहुरालम्य रोदनं कार्यम्, न वा शिरसो मस्तकस्य प्रदेशो भागस्ताडनीयः । जिनकल्पिकपर कमिदं सूत्रम्, स्थविरकम्पिकस्य तु कारणवशात् वणस्य आमार्जनप्रमार्जनादिकं निरवद्यतया कर्त्तुं कल्पते ॥ सू० २८-३३ ॥
सूत्रम्---जे भिक्खू अप्पणी कायंसि गंड वा पिलगं वा अरइयं वा असियं वा भगंदलं वा, अन्नयरेण तिक्खेण सत्थजाएण आच्छिदज्ज वा विच्छिदेज्ज वा, आच्छिदंतं वा विच्छिदंतं वा साइज्जइ ॥ सू० ३४॥
For Private and Personal Use Only
छाया- यो भिक्षुः आत्मनः काये गण्डं वा पिलकं वा अरतिकां वा अर्शो वा भगदुरं वा अन्यतरेण तीक्ष्णेन शस्त्रजातेन, आछिन्याहा विच्छिन्द्याद्वा आच्छिन्दन्तं वा विच्छि दन्तं वा स्वते ॥ सू० ३४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अप्पणो कार्यसि' आत्मनः काये - स्वशरीरे 'गंडं वा' गण्डं वा तत्र गण्डो नाम य उच्चप्रदेशात् नीचप्रदेशं गच्छति स ऋणः गण्डमाला - कण्ठमालेति लोकप्रसिद्धः, तम्, तथा-- पिलकं वा पादवणम्, 'अरइयं का' परतिकां वा यस्या वेदनया मनसि भरविरुत्पद्यते, शरीर रक्तविकारेण जायमानलघुत्रण पुल