________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ तृतीयोद्देशकः॥ अथ तृतीयोदेशकप्रथमसूत्रस्य द्वितीयोदेशकान्तिमसूत्रेण सह कः संबंधः ? इति चेदत्राह भाष्यकार:-'उवहि' इत्यादि । भाष्यम्-उवहिपडिलेहो य, पुव्वुत्तो तयणंतरं ।
___ आहारं पडिगिण्हिज्जा, संबंधोऽत्थ वियाहिओ ॥१॥ छाया--उपधिप्रतिलेखश्च पूर्वोक्तस्तदनन्तरम् ।।
आहारं प्रतिगृह्णीयात्, सम्बन्धोऽत्र व्याख्यातः ॥१॥ अवचूरिः- 'उवहीपडिलेहो य' उपधिप्रतिलेखश्च, उपधिप्रतिलेखः उपधेः-प्रतिलेखना 'पुव्वुत्तो' पूर्वोक्तः पूर्वमुक्तः कथितः, तदन्तरम् उपधिं प्रतिलिख्य उपधेः वस्त्रादेः आहारप्रसङ्गात्पात्रस्य च प्रतिलेखनां कृत्वा आहारं प्रतिगृह्णीयात् , इति अस्मिन् तृतीयोदेशे आहारग्रहणविधिः प्रदर्श्यते, एष एवात्र तृतीयोदेशस्य द्वितीयोदेशान्तिमसूत्रेण सह सम्बन्धो व्याख्यातः कथितः । अनेन सम्बन्धेनायातस्यास्य तृतीयोदेशकस्येदमादिमं सूत्रम् , तत्र प्रथमं पुरुषमधिकृत्यएकवचनसूत्रमाह-'जे भिक्खू' इत्यादि ।
- सूत्रम्-जे भिक्खू आगंतागारेसु वा, आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थियं वा गारत्थिय वा असणं वा पाणं वा खाइमं वा साइमं बा ओभासिय-ओभासिय जायइ, जायंतं वा साइज्जइ ॥सू०१॥
छाया-यो भिक्षुः आगन्त्रागारेषु वा-आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकं वा-गार्हस्थिकं बा अशनं वा पानं या खाद्यं वा स्वाद्य वा भवभाष्याऽवभाष्य याचते, याबमानं वा स्वदते ॥ सू० १॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसुवा' आगन्त्रागारेषु वा, तत्र-आगन्तार:-पथिकाः तेषां विश्रामकरणाय कृत आगारो गृहम् 'धर्मशाला' इति लोके प्रसिद्धम् , तत्र गत्वा, अर्थात्-यत्र स्थानविशेषे निर्मिते गृहे आगन्तुकाः सार्थवाहादयो गमनागमनसमये समागत्य विश्रामार्थ निवसन्ति तादृशगृहविशेषे स्थितश्रावकाणां पुरतोऽशनादिकं याचतेइत्यग्रिमेण संबन्धः । 'आरामागारेसु वा' मारामागारेषु, तत्र-"आरामः स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमरः, तस्मिन्नारामे-उपवने -आगारो गृहम् कञ्चित्कालं मनोविनोदनाय क्रीडार्थ वस्तुम् निर्मीयते, तेषु वा 'गाहावइकुलेसु वा' गाथापतिकुलेषु वा-गाथाः-गृहाः, तेषां पतयस्तेषां कुलेषु । 'परियावसहेसु वा' पर्यावसथेषु वा, तत्र-गृहिपर्याय परित्यज्य प्रवग्यापर्याये ये स्थितास्तापसा
For Private and Personal Use Only