________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
नि:शेषसिद्धान्तविचार-पर्याये पायच्छित्तं पडिवजाहि'त्ति प्रतीतम् । एतेन च निशीथादिषु गृहिण: प्रायश्चित्तस्याऽप्रतिपादनात् न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते, तन्मतमपास्त, साधूद्देशेन गृहिप्रायश्चित्तस्य जीतव्यवहारानुपातित्वादिति । उपासकदशा-तृतीयाध्ययने (सू० ३९)।
'तए ण' से कुण्डकोलिए समणोवासए अण्णया कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढविसिलापट्टए नामामुद्दगं च उत्तरिजगच पुढविसिलापट्टए ठवेइ ठवेइत्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्ति उवसंपजित्ता ण विहरइ' इत्यर्थात् मुखवस्त्रिका श्रावकस्य उत्तरिजगं-उत्तरीयवस्त्रं उत्तरिज्जेण आसं पेहेइ त्ति सर्वत्र दृष्टत्वात् उपासकदशासु (सू० ३६)
कृतवलिकर्मा बलिकर्म-लोकरूढं ‘कृतकौतुकमङ्गलप्रायश्चित्ता' कौतुक-मषीपुण्ड्रादि मङ्गलं-दध्यक्षतचन्दनादि, एते एव प्रायश्चत्तमिव प्रायश्चित्तं दुःस्वप्नादिप्रतिघातकत्वेन अवश्यकार्यत्वादिति । उपासकदशावृत्तिव्याख्या । उत्तरीयकम्-उपरितनवसनं उपासकदशाष्टमेऽध्ययने।
तए ण सा देवई देवी ते अणगारे इजमाणे पासइ, पासित्ता हट्ट जाव हियया आसणाओ अब्भुटेइ अध्भुटेइत्ता सत्तटुपयाई तिखुत्तो आयाहिण-पयाहिण करेइ, करेइत्ता वंदइ नमसइ'त्ति प्रदक्षिणाविचार: अन्तकृद्दशासु । 'तए णं सा पउमावई उत्तरपुरच्छिमे दिसीमाए अवक्कमइ, सयमेव पवावेइ पवावेत्ता सयमेव मुंडावेइ, सयमेव जक्खिणीर अजाए सिस्सिणि दलयइ' कृष्णभार्या इति शेषः । अन्तद्दशासु अष्टाविचारः ।
नापि पूजनया- तीर्थ निर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया भक्ष्यं गवेषणीयमिति शेषः । इति प्रश्नव्याकरणवृत्तौ श्रावकं प्रति मुखपोतिकाविचार: षष्ठेऽध्ययने ।
For Private And Personal Use Only