________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
ज्ञातधर्मकथाविचारा: अंतेउरे तेणेव उवागच्छइ' इति शातधर्मकथा सू० (११९) । वृत्तिस्तु यथा-'जाव धूवंडहित्ता जिणघराओपडिनिखमइति यावत्करणादर्थत इदं दृश्य-लोमहस्तकं परामृशति. ततस्तेन जिनप्रतिमा: प्रमार्टि, सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानां गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म । मालाकलापावलम्बन पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलकालेखनं च करोति । ततो वाम अंचेइ-उत्क्षिपतीत्यर्थः । दाहिणं धरणितलंसि निहट्ट-निहत्य-स्थापयित्वा निवेशयति निवेसेइ इत्यस्य पर्यायः । 'वंदइ नमसइ' त्ति । तत्र वन्दते-चैत्यवन्दनविधिना प्रसिद्धेन, नमस्थति पश्चात् प्रणिधानादियोगेनेति वृद्धाः । न च द्रौपद्याः प्रणिपातदण्डकमा चैत्यवन्दनभिहितं इत्यन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं. चरितानुवादरूपत्वादस्य । न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकाभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते । किं चाऽविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते । यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्याममेवमुपदर्शितं जीवाभिगमवृत्तिकृता-विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरस्सरकायोत्सर्गाद्यसिद्धेः, ततो वन्दते सामान्येन, नमस्करोति-आशयवृद्धःप्रीत्युत्थानरूपनमस्कारेणेति । किञ्च-'समणेण सावपण य अवस्स कायव्ययं हवइ जम्हा । अंतो अहोनिसिस्स य तम्हा आवस्सयं नाम' ॥ तथा 'जणं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे उभओ कालं आवस्सए चिट्ठइ, तण लोउत्तरीए भावावस्सए' इत्यादेरनुयोगद्वारवचनात् । तथा सम्यग्दर्शनसम्पन्न: प्रवचनभक्तिमान् पइविधावश्यकनिरतः षट्स्थानकयुक्तश्च श्राधको भवतीत्युमास्वातिवाचकवचनाच श्रावकस्य षड्विधावश्यकस्य सिद्धावावश्यकान्तर्गतं
For Private And Personal Use Only