________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगतदृष्टिका करतलपर्यस्तितमुखी ध्यायति । अथानन्तरं यत्संपन्नं तदाह-'ते णं काले ण' मित्यादि ।
[पृ०४८] गृहेषु समुदान-भिक्षाटनं गृहसमुदानं भैरं, तनिमित्तमटनम् । साध्वीसंघाटको भद्रसाथवाहगृहमनुप्रविष्टः । तनार्या चेतसि चिन्तितक्ती ( एवं वयासी) यथा-विपुलान्समृद्धान् भोगान् भोगभोगान्-अतिशयवतः शब्दादीन् उप. भुञ्जाना विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति'(ऽहं वर्ते )। तदत्रार्थे यूयं किमपि जानोवे न वेति ? यद्विषये परिक्षानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । केवलिप्रज्ञप्तधर्मश्च" जीवदयसच्चवयणं, परधणपरिवजणं सुसीलं च । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई ॥१॥" इत्यादिः । एवमेयं ति एवमेतदिति साध्वीवचने प्रत्या (त्यया)विष्करणम् । एतदेव स्फुटयति-तहमेयं भंते ।' तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेतद्यूयं वदथ तथैवैतत् । 'अवितहमेयंति सत्यमेतदित्यर्थः । 'असंदिद्धमेय'ति संदेहवर्जितमेतत् । एतान्येकार्थान्यत्यादरप्रदर्शनायोक्तानि सत्योऽयमों यथं वदथ इत्युक्त्वा वदन्ते-वाग्भिः स्तौति, नमस्थति कायेन प्रणमति चंदित्ता नमसित्ता सावगधम्म पडिघजइ देवगुरुधर्मप्रतिपत्तिं कुरुते ।।
यथासुखं देवानुप्रिये ! अत्रार्थ मा प्रतिवन्ध-प्रतिघातरूपं प्रमादं मा कृथाः ।
[ पृ० ५० ] आघवणाहित्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनः । 'पण्णवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषतः
For Private and Personal Use Only