________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
Acharya Shri Kailassagarsuri Gyanmandir
महेइ ' त्ति शरकेण-निर्मन्थकाप्टेन अरणि-निर्मन्थनीय काष्ठं मध्नाति -घर्षयति ।
6
[ पृ० ४१ ] अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथा शब्दवर्ज, तत्र च ' सत्तंगाई समादद्दे 'त्ति सप्ताङ्गानि समादधाति - सन्निधापयाति सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारुं तथात्मानमिति । तत्र सकथं - तत्समयप्रसिद्ध उपकरणविशेषः स्थानं ज्योतिःस्थानम् पात्रस्थानं वा, शय्याभाण्डं शय्योपकरणं, कमण्डलुः - कुण्डिका दण्डदारु-दण्डकः, आत्मा प्रतीतः । चरु साहेइ 'त्ति चरुः - भाजनविशेषः तत्र पच्यमानं द्रव्यमपि चरुरेव तं चरु बालमित्यर्थः साधयति - रन्धयति । ' बलिं वहस्सदेवं करेह त्ति बलिना वैश्वानरं पूजयतीत्यर्थः । ' अतिहिपूयं करेह ' ति अतिथेः- आगन्तुकस्य पूजां करोतीति 'जाव गहा कडुच्छ्रयतं बियभायणं गहाय दिसापोक्खियतावसत्तम् पव्वइय प्रत्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पारणादिकमाचरितवान् । इदानीं च इदं मम श्रेयः कर्तु तदेवाह-
>
>
[ पृ० ४२ ] ' जाव जलते सूरिए ' दृष्टान् अभाषिताम् आपृच्छ्य, बहूनि सभ्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम युज्यते इति संप्रेक्ष्यते चेतसि 'कट्ठमुद्दाय मुहं वंधत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनाबलम्बी जातः यद्वा मुखरन्ध्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादीनि सुगमानि एतेषु स्थानेषु स्खलितस्य प्रतिप्रतितस्य वा न तत उत्थातुं मम कल्पते । महाप्रस्थान
For Private and Personal Use Only