________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७ अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्, षष्ठित. न्त्रविशारदः षष्ठितन्त्रं-कापिलीयशास्त्रं षडङ्गवेदकत्वमेव व्यनक्ति, संख्याने-गणितस्कन्धे शिक्षाकल्पे-शिक्षायामशर. स्वरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्द लक्षणे छन्दसि-गद्यपद्यवचनलक्षणनिरुक्तप्रति. पादके ज्योतिषामयने-ज्योतिःशाने अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठितः सोमिलनामा ब्राह्मणः स च पार्श्वजिनागमं श्रुत्वा कुतूहलवशान्जिनसमीपं गतः सन् ‘इमाई यणं ' इति इमान् एतद्रूपान् 'अट्ठाई ' ति अर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । “हेऊई' ति हेतून् अन्तः तिन्यास्तदीयज्ञानसंपदो गमकान् , 'पलिणाई' ति यात्रायापनोयादीन् प्रश्नान् पृच्छयमानत्वात् , कारणाई' ति कारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानि-प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि' त्ति प्रश्नयिध्ये इति कृत्वा निर्गतः । 'खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीय एवमवादोत्-' जत्ता ते भंते ? जवणिज्जं च ते? ' इति प्रश्नः तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानमसंभा. मयताऽपभ्राजनार्थम् प्रश्नः कृत इति — सरिसवय' त्ति एकत्र सदृशवयसः अन्यत्र सर्षपाः-सिद्धार्थकाः, 'मास' त्ति एकत्र माषो-दशार्धगुज्जामानः सुवर्णादिविषयः अन्यत्र माषाः धान्यविशेषः उडर इति लोके रूढः, 'कुलत्थ ' त्ति एकत्र कुले तिष्ठन्ति इति कुलत्थाः, अन्यत्र कुलस्था:-धान्यविशेषः । सरिसवयादिपदप्रश्नश्च छलग्रहणेनोपहासार्थ कृतः इति, 'एगे भवं' ति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानां चात्मनो
For Private and Personal Use Only