________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
ऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुध्ध्या पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् 'दुवे भवं ' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामोति बुध्ध्या पर्यनुयोगो विहितः अत्र भगवान् स्याद्वावपक्षं निखिलदोषगोचरातिक्रान्तमवलम्योत्तरमदायि ( मदात्)-एकोऽप्यहं, कथं? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात् न तु प्रदेशार्थतया ( प्र देशार्थतया) ह्यनेकत्वात् , ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यह, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथा हि-एको हि देवदत्तादिपुरुष एकदैव तत्तदपेक्षया पितृ. त्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान् लभते। 'तहा अक्खए अव्वए निच्चे अवढिए आय'त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसंख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात् , तथाऽव्ययः क्रियतामपि व्ययत्वाभावात् , असंख्येयप्रदेशता हि न कदाचनाप्यपति । अतो व्यवस्थित्वान्नित्यताऽभ्युपगमेऽपि न कश्चिदोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थ, व्यवच्छिन्नसंशयः संजातसम्यक्त्वः 'दुवालसविहं सावगधम्म पडिवज्जित्ता सट्ठाणमुवगओ सोमिलमाहणो' ।
[पृ० ३८ ] 'असाहुदंसणेणं' ति असाधवः-कुदर्शनिनो भागवततापसादयः, तद्दर्शनेन साधूनां च-सुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः अत ए. बोपर्युपासनतस्तदभावात् , अतो मिथ्यात्वपुद्गलास्तस्य प्रवधमानतां गताः, सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणमिथ्यात्वं गतः । तदुक्तम् -"मइमेया पुवोग्गाहसंसग्गीए य अभिनिवेसणं । चउहा खलु मिच्छत्तं साहूणं
For Private and Personal Use Only