________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
पञ्चवर्षनतथालनपरो मासिझ्या संलेखनया कालगतः सौघम देवत्वेनोत्पन्नो द्विसागरोपमस्थितिकस्तत च्युत्वा महाविदेह उत्पद्य सेत्स्यते( ति )इति कल्पावतंसकोत्पन्नस्य प्रथममध्ययनम् ॥ १ ॥
पृ० ३२ ] एवं सुकालसत्कमहापद्मदेश्याः पुत्रस्य महापद्मस्यापीयमेव वक्तव्यता. स भगवत्समीपे गृहीतव्रतः पश्चवर्षवतपर्यायपालनपर एकादशाङ्गधारी चतुर्थषष्ठाष्टमादि. बहुतपःकर्म कृत्वा ईशानकल्पे देवः समुत्पन्नो द्विसागरोपमस्थितिकः सोऽपि तत च्युतो महाविदेहे सेत्स्यतीति द्वितीयमध्ययनम् ॥ २ ॥ तृतीये महाकालसत्कपुत्रवक्तव्यता, चतुर्थ कृष्णकुमारसत्कपुत्रस्य, पञ्चमे सुकृष्णसत्कपुत्रस्य वक्तव्यता इत्येवं त्रयोऽप्येते वर्षचतुष्टयवतपर्यायपरिपालनपरा अभवन् । एवं तृतोयो महाकालाङ्गजश्चतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्टस्थितिको देवो भूत्वा सप्तसागरोपमाण्यायुरनुपाल्य तत'च्युतो महाविदेहे सेत्स्यतीति तृतीयमध्ययनम्। ॥३॥चतुर्थे कृष्णकुमारात्मजश्चतुर्वर्षवतपर्यायः माहेन्द्र कल्पे देवो भूत्वा सप्तसागरोपमाण्यायुरनुपाल्य तत च्युतो महाविदेहे सेत्स्यतीति चतुर्थमध्ययनम् ॥४॥ पञ्चमः सुकृष्णसत्कपुत्रो वर्षचतुष्टयं नतपर्याय परिपाल्य ब्रह्मलोके पंचमकल्पे दश सागरानुत्कृष्टमायुरनुपाल्य तत'च्युतोमहाविदेहे सेत्स्यतीति पञ्चममध्ययनम् ॥ ५ ॥ षष्ठाध्ययने महाकृष्णसत्कपुत्रस्य वक्तव्यता, सप्तमे वीरकृष्णसत्कपुत्रस्य, अष्टमे रामकृष्णसत्कपुत्रस्य वक्तव्यता । तत्र त्रयोऽप्येते वर्षत्रयव्रतपर्यायपरिपालनपरा अभवन् । एवं च महाकृष्णाङ्गजो वर्षत्रयपर्यायाल्लान्तककल्पे षष्ठे उत्पद्य चतुर्दशसागरोपमाण्युत्कृष्टस्थिति. कमाधुरनुपाल्य तत च्युतो महाविदेहे सेत्स्यतीति षष्ठमध्यबचम् ॥ ६ ॥ वीरकृष्णाङ्गजः सप्तमः वर्षत्रयव्रतपर्याय परि
For Private and Personal Use Only