________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
રક पाल्य महाशुक्रे सप्तमे कल्पे समुत्पद्य सप्तदशसागराण्यायुरनुपाल्य तत'च्युतो विदेहे सेत्स्यतीति सप्तममध्ययनम् ॥ ७ ॥ रामकृष्णाङ्गजोऽष्टमो वर्षत्रयं व्रतपर्यायं परिपाल्य सहस्रारेऽष्टमे कल्पेऽष्टारशसागराण्यायुरनुपाल्य तत च्युतो विदेहे सेत्स्यतोति अष्टममध्ययनम् ॥ ८ ॥ पितृसेनकृष्णागजो नवमो वर्षद्वयव्रतपर्यायपरिपालनम् कृत्वा प्राणतदेव. लोके दशमे उत्पद्य एकोनविंशतिसागरोपमाण्यायुरनुपाण्य तत युतो विदेहे सेत्स्यतीति नवममध्ययनम् ॥९॥ महासेनकृष्णाङ्गजश्च दशमो वर्षद्वयव्रतपर्यायपालनपरोऽनशनादिविधिनाऽच्युते द्वादशे देवलोके समुत्पद्य द्वाविंशतिसागरोपमाः ण्यायुरनुपाल्य तत च्युतो महाविदेहे सेत्स्यतीति दशममध्ययनम् ॥ १० ॥ इत्येवं कल्पावतंसकदेवप्रतिबद्धग्रन्थपद्धतिः कल्पावतंसकदेवप्रतिबद्धग्रन्थपद्धतिः कल्पावतंसिकेत्युच्यते । ता एताः परिसमाप्ताः द्वितीयवर्गश्च ॥ २ ॥
॥ पुफिया ॥३॥
[पृ० ३४ ] अथ तृतीयवर्गोऽपि दशाध्ययनात्मकः 'निक्खेवओ' त्ति निगमनवाक्यं यथा 'एवं खलु जंबु समणेणं भगवया महावीरेणं आईगरेणं इत्यादि जाव सिद्धिगहनामधेयं ठाणं संपाविउकामेणं तइयवग्गे वग्ग (पढमअज्झ) यणस्स पुफियाभिहाणस्स अयमढे पन्नत्ते' एवमुत्तरेष्वध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं तत्तदभिलापेन।
[पृ. ३५ ] 'केवलकप्पं' ति केवलः-परिपूर्णः स चासो कल्पश्च केवलकल्पः-स्वकार्यकरणसमर्थः केवलकल्पः तं स्व. गुणेन सम्पूर्णमित्यर्थः । 'कूडागारसालादिट्ठतो' ति कस्मि
For Private and Personal Use Only