________________
Shri Mahavir Jain Aradhana Kendra
14
www.kobatirth.org
८
છ
ऽप्येवम् ३ । चतुर्थेऽह्नि कृष्णकुमारस्तथैव ५ 1 पश्चमे सुकृष्णः ५, षष्ठे महाकृष्णः ६, सप्तमे वीरकृष्णः ७, अष्टमे रामकृष्णः ८, नवमे पितृसेनकृष्णः ९ दशमे पितृमहासेनकृष्णः १० चेटकेनैकैकशरेण निपातिताः । एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थे देवताराधनाय कुणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ । ततः शको बभाषे -
चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि, नवरं, भवन्तं संरक्षामि " । ततोऽसौ तद्वक्षार्थ वज्रपतिरूपकमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान् महाशिलाकण्टकं रथमुशलं चेति । तत्र महाशिले कण्टको जोवितमेदकत्वान्महाशिलाकण्टकः । ततश्च यत्र तृणशूकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । 'रहमुसले ' त्ति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् अतो रथमुशलः । ' ओयाए ' त्ति उपयातः - संप्राप्तः । किं जइस्सइ ' त्ति जयश्लाघां प्राप्स्यति । पराजेष्यते - अभिभविष्यति परसैन्यं परानभिभविष्यति उत नेति कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न वेत्येवम् उपहतो मनःसंकल्पो युक्तायुक्त विवेचनं यस्याः सा उपहतमनः संकल्पा I यावत्करणात् " करयलपल्हत्थियमुही अट्टज्झाणोवगया ओमथियवयणनयणकमला ओमंथियं - अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा । दीणविवन्नवयणा' दीनस्येव विवर्ण वदनं यस्याः सा तथा । झियाइ ' त्ति आर्तध्यानं ध्यायति, मणोमाणसिपणं दुक्खेणं अभिभूया मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनो-मानसिकं तेन अबहिर्वर्तिनाऽभिभूता । 'ते णं काले णं' इत्यादि । 'अयमेयारूवे 'ति अयमे
""
6
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
>