________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्रूपो वक्ष्यमाणरूपः · अज्झथिए ' त्ति आध्यात्मिक:आत्मविषयः चिन्तितः-स्मरणरूपः, प्रार्थितः लब्धुमाशंसितः, मनोगतः-मनस्येव वर्तते यो न बहिः प्रकाशितः, संकल्पोविकल्पः, समुत्पन्नः-प्रादुर्भूतः । तमेगह-' एवमि' त्यादि । यावत्करणात् "पुव्वाणुपुचि चरमाणे गामाणुगाम दुइज्जमाणे इहमागए इह संपत्ते इह समोसढे, इहेव चंपाए नयरीए पुनभद्दे चेइए अहापडिरूवं उग्गहं उम्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ” । 'तं महाफलं खलु' भो देवाणुप्पिया? 'तहारूवाणं' अरहंताणं, भगवंताणं, नामगोयस वि सवणयाए, किमंग पुण अभिगमणवंदणनमसणपडिपुच्छणपज्जुवासणाए ? एगस्स वि आरियस्स धम्मियस्स वयणस्स सवणयाए, किमंग पुण 'विउलस्स अट्ठस्स गहणयाए ' ' गच्छामि णं ' अहं 'समणं ' भगवं महावीरं वदामि नमसामि सकारेमि सम्मोणेमि कल्लाणं मंगलं देवयं चेइयं — पज्जुवासामि,' एवं नो पेञ्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ 'इमं च णं एयारूवं वागरणं पुच्छिस्सामि त्ति कटु एवं संपेहेइ' संप्रेक्षते-पर्यालोचयति। सुगमम्। नवरं 'इहमागए' त्ति चम्पायां, “इह संपत्ते' त्ति पूर्णभद्रे चैत्ये, ' इह समोसढे' त्ति साधूचितावग्रहे. एतदेवाह-इहेव चंपाए इत्यादि । 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः । 'तं' इति तस्मात् , ' महाफलं ' ति महत्फलमायत्यां भवतीति गम्यं । 'तहारूवाणं ' ति तत्प्रकारस्वभावानां-महाफलजनननस्वभावानामित्यर्थः । ' नामगोयस्स'त्ति नाम्नो-यादृच्छिकस्याभिधानस्य, गोत्रस्य-गुणनिष्पन्नस्य 'सवणयाए 'त्ति श्रवणेन, 'किमंग पुण' त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् अङ्गेत्यामन्त्रणे, यद्वा परिपूर्ण एवायं शब्दो विशेषणार्थः, अभिगमनं, वन्दनं-स्तुति नमन-प्रणमनं, प्रति
For Private and Personal Use Only