________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराज प्रेरितवती-" कर्णविषलग्नकृतोऽतोऽयमेव कुमारो रोजा तत्त्वतः, न त्वं, यस्येदृशा विलासाः ” । प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति । तत्प्रेरितकूणकराजेन तौ याचितौ । तौ च तद्भयाद्वैशाल्यां नगयों स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तःपुरपरिवारितौ गतवन्तौ । णिकेन च दूतप्रेषणेन तौ याचितौ। न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृक. त्वात । ततः कृणिकेन भणितं-'यदि न प्रेषयसि तदा युद्ध. सज्जो भव' । तेनापि भणितम्-'एष सज्जोऽस्मि ' । ततः कूणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामाय याताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्त्राणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येकं तिस्रस्तिनः कोट्यः । कुणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कृणिकस्य कालादिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपगतः । एतमर्थं वक्तुमाह'तए णं से काले' इत्यादिना। एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानौ मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणं, ततो युद्ध संप्रलग्नम् । चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति अमोघवाणश्च सः । तत्र च कूणिकसैन्ये गरुडव्युहः चेटकसैन्ये (च) सागरव्यूहो विरचितः । ततश्च कूणिकैस्य कालो दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितः १ । भग्नं च कूणिकबलं । गते च द्वे अपि बले निजानिजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्धमानस्तावद् गतो यावच्चेटकः एवं सोऽप्येकशरेण निपातितः २ । एवं तृतीयेऽह्नि -महाकालः, सो
For Private and Personal Use Only