________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपतो वा पश्चापीन्द्रियाणि यस्मिस्तत् तथाविधं शरीरं यस्याः सा तथा । " लक्खणवंजणगुणोववेया" लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणःप्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । "माणुम्मोणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी" तत्र मानंजलद्रोणप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निःसरति तत्तर्हि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम्-अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यर्धभारं तुलयति तदा स तन्मानप्राप्त उच्यते, प्रमाणं तु स्वागुलेनाष्टोत्तरशतोच्छायितो, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानि शिरःप्रभृतानि यस्मिस्तत् तथाविधं सुन्दरम् अङ्गं-शरोरं यस्याः सा तथा । " ससिसोमाकारकंतपियदंसणा" शशिवत्सौम्याकारं कान्तं च-कमनीयम् अत एव प्रियं द्रष्टणां दर्शनं-रूपं यस्याः सा तथा । अत एव सुरूपा स्वरूपतः सा पद्मावती देवी ' कुणिएण सद्धिं उरालाई भोगभोगाइं भुंजेमाणी विहरइ' भोगभोगान् अतिशयवद्भोगान् ।
[पृ. ५ ] 'तत्थ णं' इत्यादि । 'सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम् । अन्यञ्च "कोमुइरयणिवरविमलपडिपुन्नसोमवयणा " कौमुदीरजनीकरवत्-कार्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं च वदनं यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा ' कुण्डलाभ्यामुल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा । ' सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्य अगारमिव अगारं तथा चारुः वेषो-नेपथ्यं यस्याः सा तथा ततः कर्म
For Private and Personal Use Only